________________
"
जैमामारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (७१
तोर्डः । इडेत् पुसि चातो लुक । इ. सू. आलोपः) एव जिह्वा एव न मन्यते । कि लक्षणा रसज्ञा गुणामृतार्थिनी गुणा औदार्थज्ञानादय एव अमृत मर्थयतीति वाञ्छतीति गुणा० ॥ ५१ ॥
सुरद्रुमाद्यामुपमा स्मरन्ति यां, जनाः स्तुतौ ते भुवनातिशायिनः । अवमि तां न्यकृतिमेव वस्तुत, स्तथापि भक्तिमुखरीकरोति माम् ५२
(व्या०) सुरद्रुमेति ॥ हे नाथ जनालोकाः ते नव स्तुतौ सुरद्रुमायां सुराणां देवानां द्रुमा वृक्षाः कल्पवृक्षा ते आधा यस्यां सा तामुपमा स्मरन्ति कथयन्ति । कि विशिष्टस्य ते भुवनातिशायिन. भुवनानि अतिशेते इति भुवनातिशायी ( अजाते: गीले । ५ । १ । १५४ । इ. सू. अति पूर्वक शीड्धातोणिन् ) तस्य त्रिभुवनाधिकस्य । अहं तां स्तुति. वस्तुतः परमार्थतः न्य+कृति निन्दाभव अवमि जानामि । तथापि भक्तिमी मुखरीकरोति वाचालं कुरुते न मुखर' अमुखर• अमुखर मुखरं करोतीति ॥ (क्लस्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे वि । ७ । २ । १२६ । इ. सू मुखर शब्दात् धिः । ईशवाय वर्णस्याऽन ०ययस्य । ४ । ३ । १११ । इ. स. मुखर शब्दस्य अवर्णस्य ई) ॥ ५२ ॥
अनरूपोऽप्यखिलाङ्गसुन्दरो, रवेरदभ्रांशुभरोऽपि तारकः । अपि क्षमाभृन्न सकूटतां वह-स्यपारिजातोऽपि सुरद्रुमायसे ॥ ५३॥
(व्या०) अनड्रेति ॥ हे नाथ त्वं अनङ्गरूपोऽपि अखिलांगसुन्दरः सर्वाङ्ग सुन्दरो वतसे योऽनंगरूपः स्यात् स अखिलांगसुन्दर' कथं स्यात् । अत्र विरोधपरिहारमाह अनङ्गरूप कंदर्परूपः कंदर्पवत् रूपं यस्य सः अखिलांग सुन्दर अखिलानि च तानि अंगानि च समस्तांगानि तेषु सुन्दरः । हे नाय त्वं रखे. अदभ्रांशुभरोऽपि सूर्यादधिकतेज. पटलोऽपि तारकोऽसि यो खेः अदभ्रांशुमरः स्यात् स तारक कथ स्यात् अत्र विरोधपरिहारमाह अदभ्रोऽधिक अंशूनां किरणानां भरः समूहो यस्य स तारक' (णक चौ । ५ । १ । १८ । इ.