________________
श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (६५
कः । ५ । १ । १४२ । इ. सू. स्थाधातो. क' । इडेत् पुसिचातो लुक् । ४ । ३ । ९४ । इ सू. आतो लुक् ) अमीषु वृक्षेषु स्थितान् कपीन् वानरान् उपलैः पाषाणै· अभिमृष्य सन्मुखमाहत्य किं लक्षणां तैः कपिभिः रुषा रोषेण प्रतिशस्त्रितां प्रतिशस्त्रीकृतामिति ॥ ४० ॥
इमाः सुवर्णैस्तुलिता इति क्षिपा - मुखे रविःस्वं प्रवसन् वसुन्यधात् । तदीयगुंजासु किमन्यथा हिम-व्यथां हरीणां सहिता हरन्ति ताः ।।
( व्या० ) इमा इति || रवि सूर्य. क्षिपाय | (भिदादयः । ५ । ३ । १०८ । इ. सू. क्षिपा इति अड् प्रत्ययान्तो निपात) निशाया मुखं प्रारंभः तस्मिन् प्रवसन् परद्वीपं गच्छन् स्ववसु आत्मीयं तेजोद्रव्यं वा इति वक्ष्यमाणकारणात् तदीयगुंजासु न्यधात् । सर्वोजन: उत्तमस्यैव हस्ते निजद्रव्यं समर्पयति अत आह इतोति किम् । इमा गुंजा: सुवर्णै: ( तुल्यार्थैस्तृतीयाषष्ठयो । २ । २ ११६ । इ. सू. सुवर्णैरित्यत्र तुल्यार्थयोगे वा तृतीया) काञ्चनैरुत्तमजातीय व तुलिताः सदृशीकृता वा । अथ रवितेजोनिवेशफलमाह । अन्यथा ( प्रकारे था । ७ । २ । १०२ । इ. सू. अन्यशब्दात् था प्रत्यय ) ता गुंजाः सहिता मिलिताः सत्यः हरीणां वानराणां हिमस्य व्यथा (षितोऽड् । ५ । ३ । १०७ इ. सू. व्यथिष् धातोः षित्वात् स्त्रियामड् ) पीडा तां किं हरन्ति कथं हरन्ति । कोऽर्थः सूर्येण संध्यासमये स्वीयं तेजो गुजासु क्षिप्तं तेन हेतुना वानरा एकत्र संमुय गुंजा मिस्तापयन्ति तेषां चेत्थं शीतं यात्येवेति भावः ॥ ४१ ॥
जिनेशितुर्जन्मभुवः समीपगं नगं तमाधाय मुदाहगऽवगम् । स गोत्रपक्षक्षतिजातपातकै, विमुक्तमात्मानममंस्त वासवः ॥ ४२ ॥
( व्या० ) जिनेशितुरिति ॥ स इन्द्रः गोत्रपक्षक्षति स्त्रियांतिः । ५ । ३ । ९१ । इ. सू. क्षण् धातोः स्त्रियां भावेक्ति यमिरमिनमिगमिति । ४ । २ । ५५ । इ. सू. फौपरे अन्त्य लुक् ) जातपातकैः गोत्राणां पर्वतानां पक्षा