________________
६६.) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
स्तेपा भात छेदनं तेन जातानि समुत्पन्नानि यानि पातकानि पापानि तैः
आत्मानं निज विमुक्तं रहितममस्त मन्यते स्म । किं कृत्वा जिनेशितः श्रीऋषभ, देवस्य जन्मनो भूस्तस्याः इक्ष्वाकुभमे समोपगं (नाम्नो गमः खड्डौ च विहायसस्तु विहः । ५ । १ । १३१ । इ सू. गम् धातोर्डः ।) समीपस्थितं पूर्ववर्णितं नगं (नाम्नो गम खड्डो च विहायसस्तु विहः । ५ । १ । १३१ । इ. सू. संज्ञायां गम् धातोर्ड प्रत्यये । नञ् । ३।१।५१ । इ. सू. नब् तत्पुरुप नगोऽप्राणिनि वा । ३ । २ । १२७ । इ. सू. नगो वा निपात्यते) अष्टापदपर्वत मुद्रा (कुत् सम्पदादिभ्यः क्विप् । ५ । ३ । ११४ । इ. स. मुद्धातो स्त्रियां विप् ) हेर्पण दृग (भ्यादिभ्यो वा । ५ । ३ । ११५ । इ. सू. स्त्रियां वा विप् ) ध्वगं (नाम्नो गमः खइडौ च । इ. सू. गम् धातोः) दृष्टिमा गोचर आध्याय कृत्वा । कोऽर्थः पुरा पर्वता. पक्षाभ्यामुत्पत्य उत्पत्य एव प्रामनगरासूपरि पतन्त आसन् । इतश्चन्द्रेण वज्रेण पर्वतपक्षाः छिनाः इति लोकरूढिः । इन्द्रो जिनस्य जन्मभूमि प्रत्यासनमष्टापदपर्वतं दृष्ट्वा पर्वतपक्षच्छेदनपातकात् छुटितः । अन्योऽपि महातीर्थ दृष्ट्वा स्वगोत्राणां गोत्रिणा पक्षक्षतिशोछेद. तज्जातपातकै विमुक्त स्यात् यथा पांडवादयः शत्रुञ्जयतीर्थे सिद्धा इति भाव ॥ ४२ ॥
अथ प्रभोजन्मभुवं पुरन्दरो, ऽसरच्छरचन्द्रिकयेव दृष्टया । ययाचिरादुत्कलिकाभिराकुलं, प्रसादमासादयदस्य हृत्सरः॥ ४३ ॥
(व्या०) अथेति । अथानन्तरं पुरन्दरः (पुरन्दर भगन्दरौ । ५ । १ । ११४ । इ सू. निपात) इन्द्रः प्रभोर्जिनस्य जन्मभुवं (भ्यादिभ्यो वा । ५ ३ । ११५ । इ सू. भूधातो. स्त्रियां वा क्वि५) जन्मनो भस्ता असरत् अगमत् । यया जन्मभुवा दृष्टया अस्य इन्द्रस्य हृदेवसर: सर: प्रसादं हृदयरूपसरोवर प्रसाद (भावाकोंः । ५ । ३ । १८ । इ सू. सद् धातोध) निर्मलतां आसादयत् प्राप्नोति स्म । कया इव रचन्द्रिकया यथा २०१ज्योत्स्नया