________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (६३
सानुषु शिखरेषु पतन्ति । तैरेव करैः चापलात् (युवादेरन् । ७ । १ । ६७ । इ. सू. चपलशब्दात् भावेऽर्थे अण् । ) चपलभावात् विसृत्य ( प्राकू काले । ५ । ४ । ४७ | इ. सूचिपूर्वक सुधातोः प्राक् काले क्त्वा उर्यादि अनुकरण चिचडाचश्च गति' । ३ । १ । २ । इ. सू. वेर्गतिसंज्ञा गतिक्कन्यस्तत्पुरुषः । ३ । १ । ४२ । इ. सू. तत्पुरुष ) विस्तारं प्राप्य अखिला समस्ता इला पृथ्वी गैरिकरंगिणी गैरिकरंगभाक् किं न क्रियते अपितु क्रियते एव । कोऽर्थः बाल' प्राय. क्रोडासक्त इति स्थिरभावं त्यक्त्वा बालार्क किरणै' समस्तापि पृथ्वी रक्ताकृतेति भावः ॥ ३६ ॥
यदीयगारुत्मतभित्तिजन्मभिः, करैरेवंच्यन्त तथा हरित्प्रभैः । न चिक्षिपु मुग्धमृगा मुखं कचिद्यथाऽनलीकेषु तृणांकुरेष्वपि ३७
( व्या० ) यदीयेति || मुग्धमृगाः सरलहरिणाः यदीयगारुत्मतभित्तिजन्मभिः (तस्येदम् । ६ । ३ १६० । यच्छन्दात् इदमर्थे ईय प्रत्ययः) गारुत्मतरत्नानां भित्ते. (स्त्रियांति. । ५ । ३ । ९१ । इ. सू स्त्रियां भावेक्ति: 1 ) यस्य पर्वतस्य (द्विषतुरिति क्षिप् धातोर्द्वित्वं व्यञ्जनस्थानादेर्लुक् । ४ । १ । ४४ । इ सू आदिवर्जव्यञ्जनयोर्लुक् कडचञ् । ४ । १ । ४६ । इ. सू. कस्य चः कर्तरि परोक्षा) चिक्षिपुः न वाह्यन्ति स्म ॥ ३७ ॥
शरभिशोन्मुद्रितसान्द्रकौमुदी - समुन्मदिष्णुस्फटिकांशुडंबरे । निविश्य यन्मूर्द्धनि साधकैरसा - धिकै महोंत हिरण्यदृश्यत ॥ ३८ ॥
( व्या० ) शरन् इति ॥ शरद: शरत्कालस्य निशा: रजन्यः तासु उन्मुद्विता या सान्द्रा कौमुदी ( तस्येदम् । ६ । ३ । १६० । इ. सू. कुमुदशब्दात् अणू । अणेञेये इ. सू डी ) चन्द्रज्योत्स्ना तया समुन्मदिष्णवः ( उदः पचिपतिपदिमदेः । ५ । २ । २९ । इ. सू. उत्पूर्वकमद्धातोः इष्णु प्रत्यय ) वर्धनशीला ये स्फटिकमणीनामंशव किरणास्तेषामाडंबरो यस्मिन् तस्मिन् ।