________________
६२) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
मरीचयः कारणाः तैः रेचिताः श्रापिताः ये अमृतांशुकाता: चन्द्रकान्तमणयस्तेभ्यो यः अमृतपूर: स एव जीवनं यस्याः सा ॥ ३४ ॥ यदौषधिभिज्वलिताभिरदितं, तमः सपत्नीभिरवक्ष्य सर्वतः । तमखिनी गच्छति लांछनच्छलात् , कलानिधि किं दथितं स्थितेः कृते
(व्या०) यदौषधीभिरिति ॥ तमस्विनी (अस्तपोमायामेधास्त्रजो विन् । ७ । २ । ४७ । इ. सू. तमस् शब्दात् मत्वर्थे चिन् प्रत्ययः । स्त्रियां नृतोऽस्वस्त्रादेडी । २ । ४ । १ । इ. स. डीः) रात्रिः लांछनस्य कलंकस्य छ मिपं तस्मात् किं स्थितेर्मर्यादाया. (स्थो वा । ५ । ३ । ९६ । इ. सू. स्था धातोः स्त्रियां भावे क्ति: ।) कृते मर्यादार्थ कलानां निधित्तं चन्द्रमसं दयित भर्तारं गच्छति । किं कृत्वा ज्वलिताभि दीप्ताभिः सपत्नीभिः (समानः पतिर्योसां ता. सपल्यः सपल्यादौ । २ । ४ । ५० । इ. सू. पतिशब्दात् डी: अन्तस्य न् च । समानस्य धर्मादिषु । ३ । २ । १४९ । इ. सू. समानस्य सः ।) यदौषधीभिः यस्य पर्वतस्यौषध्यस्ताभिः सर्वतः (किमयादिसर्वाधऽवैपुल्य बहो पित् तस् । ७ । २ । ८९ । इ. सू. सशब्दात् तत् अधणतस्वाचाशसः । १ । १ । ३२ । इ. सू. तसन्तत्वात् अव्यय संज्ञा ।) अदितं पीडितं तमः अन्धकार अवेक्ष्य दृष्ट्वा । कोऽर्थः औषधीनां रात्रेश्च चन्द्रः पतिः रात्रेश्च अपत्यमम्धकार ज्वलिताभिरौपधीभि तमः सर्वत पीड्यमानं दृष्ट्वा उपालंभदानाय निजपति कलानिधिं (उपसर्गाद: कि । ५ । ३ । ८७ । इ. सु. निपूर्वकधा धातो. किः । इडेत् पुसि चातो लुक् । ४ । ३ । ९४ । इ. सू. आकारस्य लोपः) गता सा अद्यापि लानछलेन चन्द्रे दृश्यते इति भावः ॥ ३५ ॥ पतन्ति ये वालर प्रो करा, यदुल्लसद्गैरिक धातुसानुषु । क्रियेत तैरेव विमृत्य चापला-दिलाखिला गैरिकरंगिणी न किम् ॥
(व्या०) पतन्तीति ॥ प्रग प्रभाते बालरवेः बालाकस्य ये कराः किरणाः बालसद्गैरिकधातुसानुष यस्य पर्वतस्य उल्लसन्तश्चते गैरिकधातश्च तेषां