________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. २ (६१
----- (क्विप् । ५ । १ । १४८ । इ. सू. रुह् धातोः कर्तरि वि५) यस्य पर्वतस्य महोरहो वृक्षा तेषां तले शितिच्छविच्छायानिभात् शितिः कृष्णा छविः कान्तिर्यस्याः सा एवं विधायाछाया तस्याः निभात् मिषात् तिष्ठति । (स्थाधातोः कर्तरि वर्तमाना) कि कृत्वा कन्दरेष्वपि गुहास्वपि निवासभूमी (व्यञ्जनाद् धञ् ५ । ३ । १३२ । इ. सू. निपूर्वक वस् धातोराधारे धम् निवसति अस्मिन् इति निवामः) वासस्थान अनवाप्य अप्राप्य किं विशिष्टेषु कन्दरेषु स्फुटाः प्रकटी: स्फाटिकभित्तीनां (स्त्रियां तिः । ५ । ३ । ९१ । इ. सू स्त्रियां ति:) भानवः किरणाः येपु तानि तेषु । कोऽर्थ यत्र पर्वते मणिसत्कोद्योताने प्रवेश न लभते पश्चात् छायामिषेण वृक्षाणां तले स्थितमिति भावः ॥ यथा छायाशब्दस्तथा छायादोऽपि वर्तते ॥ ३३ ॥
प्रतिक्षिपं चन्द्रमरीचिरेचिता-मृतांशुकान्तामृतपूरजीवना । वनावली यत्र न जातु शीतगोः, पिधानमैच्छन्मलिनच्छविधनम् ॥
(व्या०) प्रतिक्षिपमिति ॥ यत्र यस्मिन् पर्वते बनानामावली वनपंक्ति र्जातु कदाचित् अपि मलिनप्छविं (मलादीमसश्च । ७ । २ । १४ । इ. सू. मलशब्दात् मत्वर्थे इन प्रत्ययः मलोऽस्ति अस्या इति मलिना) मलिना कृष्णा
छवि कान्तिर्यस्य स त धनं मेधं ऐच्छत् इष् धातोः कर्तरि ह्यरतनी न वाञ्छति स्म । किं लक्षणं धनं शीतगो श्चन्द्रस्य पिधानमाच्छादनं ( वावाप्योस्तनिकीधाग्नहोर्वपी । ३ । २ । १५६ । इ. सू. अपेः पि. १) पक्षे शीता शीतला गौर्वाणी यस्य स शीतन ( एकार्थचानेकं च । ३ । १ । २२ । इ. सू. बहुव्रीहिः समास गोश्चान्ते हस्वोऽनंसि समासे यो बहुव्रीहौ । २।४ । ९६ । इ. सू. गोशब्दस्य ह्रस्व ।) तस्य पिधानमपहवकरणात् य एवं विधो मलिनच्छविश्व स्यात् स सर्वस्याप्यनिष्ट एव स्यादिति । अथ मेधं विना वनावली कथं जीविष्यतीत्याह वनावली प्रतिक्षिपं (योग्यताबी सार्थानति वृत्ति सादृश्ये । ३ । १ । ४० । इ. स. वीप्सायामव्ययीभावः ।) क्षिपां क्षिपां प्रतिरात्रि पस्य