________________
६०) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
लक्षणं पुलक इति प्रमोदानुगुणं इति अमुना प्रकारण प्रमोदो (भावाकोः ।। ५ । ३ । १८ । इ. सू प्रपूर्वकमुद् धातो वे ५ ।) हर्षस्तस्य अनुगुणं योग्यं कः प्रमोदः इत्याह चतुभिर्युता युक्ती अर्हतां प्रतिमानानि (अनट् । ५ । ३ । १२४ । इ. सू प्रतिपूर्वक मिमीतेः नपुंसके भावे अनट् प्रत्ययः) बिम्बानि तेषां विशतिः एतावता चतुर्विशतिः मम शिरः मस्तकमध्यास्य आश्रित्य वतसयिष्यति (वावाप्योस्तनिक्रीधामहोपी । ३ । २ । १५६ । इ. सू तन् धातौ परे अव उपसर्गस्य वः) अवतंसयुक्तं मुकुटसंयुक्तं करिष्यति ३१
यदुच्चशृङ्गाग्रजुषोऽपि खेचरी-गृहीतशिम्बाफलपुष्पपल्लवाः । न से हिरे स्वानुपभोगदुर्यशो, द्रुमा मरुत्प्रेरितमौलिधूननैः ॥ ३२ ॥
(व्या०) यदुचेति ॥ द्रुमाः वृक्षा• मरुता वायुना प्रेरिताश्चते मौलयश्च शिरांसि तेषां धूननानि तै पवनप्रेरित शिर: कम्पन मिषेण स्पानुपभोगदुर्यशः स्वस्यात्मनोऽनुपभोगः उपभोगाभावः तस्य दुर्यशः अपकीर्तिः तत् न सेहिरे सहधातोः कर्तरि परोना न सोढवन्तः । किं लक्षणाः द्रुमा यदुचशृंगाजुषोऽपि (विचम् । ५ । १ । १४८ । इ. सू. जुष् धातोः कतरि विवप् ।) यस्य गिर' उच्चङ्गाणि उन्नतशिखराणि तेषामग्रं जुषन्ते सेवन्ते एवंविधा अपि पुनः किं० खेचरीगृहीतसिम्बाफलपुष्पल्लवाः खेचरीभिः (चरेष्ट । ५ । १ । १३८ इ. सू. चरेष्टः खेचरन्तीति खेचर्थः अद्वयञ्जनात्सप्तम्या बहुलम् । ३ । २ । १८ इ. सं. सप्तम्या अलु५ । अणजेयकण नञ् स्मन् टिताम् । २ । ४ । २० । इस हित्वात् स्त्रियांडी विद्याधरीभिः गृहीताः सिम्बाश्च फलिका फलानि च धुपाणि च पल्लवाच येषां ते ॥ ३२ ॥
निवासभूमीमनवाप्य कन्दरे-ध्वपि स्फुटस्फाटिकभित्तिभानुषु । तले तमस्तिष्ठति यन्महीरुहां, शितिच्छविच्छायनिभानिशात्यये ३३
(व्या०) निवासेनि ॥ तमः अन्धकार निशात्यये प्रभाते 4 महीहां