________________
५८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
इहापि वर्ष समवाप्य भारत, बमार तं हर्षभरं पुरन्दरः। घनोदयोऽलं धनवमलंघनं, श्रमं शमं प्रापयति स्म योऽमृतम् २८
(०या०) इहापीति । पुरन्दर: (पुरन्दर भगन्दरौ । ५ । १ । ११४ । इ. सू पुरन्दर निपातः ।) पुरः दारयतीति पुरन्दरः इन्द्रः इहापि जम्बूद्वीपमन्येऽपि भारतं वर्ष भरतक्षेत्रं समवाप्य प्राप्य तं हर्षभरं प्रमोदसमुहं वभार धरति स्म । अद्भुतमाश्चर्यमस्ति यो हर्षभरः अलमत्यर्थ धनवमलंघनश्रमं धनानां मेधानां वर्त्म मार्गः धनवर्त्म आकाशं तस्य लंधने यः श्रमः तं शर्म शान्ति प्रापयतिस्म । (स्मे च वर्तमाना । ५। २ । १६ । इ. सू. स्म योगे भूते वर्तमाना) कि विशिष्टो हर्षभरः घनोदयः घनः (मतिनिचिताभ्रे घनः । ५ । ३ । ३७ । इ. सू. मूर्त्यर्थे घनः) प्रचुरः उदयः उत्पत्तिर्यस्य स. । कोऽर्थः अन्यो भारः श्रममुत्पादयति अयं हर्षभरस्तु श्रमं शमयति स्म इत्याश्चर्यम् ॥ २८ ॥
विनीलरोमालियुजो बनीघनो, गभीरनामेबहुनिम्नपल्वलः । बभूव शच्याअपि मध्यदेशतो ऽस्य मध्यदेशः स्फुटमीक्षितोमुदे ।।२९
(व्या०) विनीलेति ॥ यत्र जिनचक्री अर्द्धचक्रामुख्यानां जन्म स्यात् स भरतक्षेत्रसत्को मध्यदे२१. शच्या मध्यदेशतोऽपि इन्द्राण्या उदरप्रदेशादपि अधिकमस्य इन्द्रस्य मुदे (कुरसंपदादिभ्यः किम् । ५ । ३ । ११४ । इ. सु. स्त्रियां भावे क्विपू) हर्षाय बभूव (द्विर्धातु: परोक्षाडे । ४ । १ । १ । इ सू. भूधातोदित्वं द्वितीय तृतीययोः पूर्वी । ४ । १ । ४२ । इ. सू. भूस्याने बू भूस्वपोरदुतौ । ४ । १ । ७० । इ. स. पूर्व बूस्थाने अकारे ब. नामिनोऽकलि. हले । ४ । ३ । ५१ । इ. सू. णवि परे भूधातोकारस्य वृद्धौ बभौ अ इति
ओदौतो अव् आव् । १ । २ । २४ । इ. स. आचादेशे वभाव अ भुवोवः परोक्षाचतन्यो. । ४ । २ । ४३ । इ. स. उपान्त्यस्य ऊकारे बभव इति)। हेतुमाह किं विशिष्टो मध्यदेश. स्फुटं प्रकटमीनितो दृष्टः । शचीमध्यदेशस्तु नैवमीक्षितोऽरित अत्तो हर्षे विशेष । कि लक्षणात् शच्यामध्य