________________
श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम ॥ सर्गः २ (५७
इ. सू. पकारः) राकाशं स्ववर्णाम्बुदगर्जितन स्वस्यवर्णः श्यामतालक्षण जातिविशेषो वा यस्य स स्ववर्णः एवं विधो योऽम्बुदो मेघ तस्य गजितेन गजरिव
छले न तमिन्द्रं द्रुतं शीघ्रं व्रजन्तं गच्छन्तं सन्तं किमु इति व्यजिज्ञपत् (गिश्रि द्रुकम: कर्तरि डः । ३ । ४ । ५८ । इ. सू. ज्ञप् धातोः कर्तरि अवतन्यां ड. द्विधातुः परोक्षा इ. सू. द्विर्भाव । असमानलोपे सन्दल्लधुनिडे । ४ । १ । ६३ । इ. सू. डपरे णौ सनवद्भाव ।) विज्ञपयति स्म । विज्ञप्तिरपि । स्वजनेन कार्यते इति व्यङ्गम् । इति इति कि हे दिवस्पते (वाचस्पतिवास्तोप्पति दिवस्पतिदिवोदासम् । ३ । २ । ३६ । इ. सू. दिवस्पति पष्टयलपि सत्वं च निपात्यते) अहं द्यौरस्मि तव सांप्रतमधुना मामुपेत्य ममसमीपमागत्य मोक्तुं न सांप्रतं न युक्तम् । कोऽर्थ द्यो द स्त्रीलिङ्ग स्वर्गाकाशवाची अतो भन्याह । त्वं दिवस्पतिः अहं तु द्यौः एतावता त्वं स्वामी अहं च भार्या अतः कारणात मम समीपमागत्य तब इत्थमेवोपेक्ष्य गन्तुं न युक्तमिति भावः ॥ २६ ॥
पथि प्रथीयस्यपि लंधिते जवा-दवाप स द्वीपमथादिम हरिः। विभाति यो द्वीपसरस्वदुत्करः, परैः परीतः परिवषिचन्द्रवत् ॥२७॥
(व्या०) पथीति ॥ अथानन्तरं स हरि. इन्द्रः जवात् वेगात् प्रथीयस्यपि (गुणागाद्वेष्ठेयसू । ७ । ३ । ९ । इ. सू. पृथु शब्दात् ईयसुः । पृथुमृदुभृशकाढपरिवृदस्य *तो र । ७ । ४ । ३९ । इ. सू. रः त्र्यन्त स्वरादे. । ७ । ४ । ४३ । इ. सू अन्त्यस्योकारस्य लोप) प्रचुरेऽपि पथि मार्गे लंघिते सति आदिमं द्वीपं द्वयन्तरनवर्णोपसर्गादप ईप् । ३ । २ । १०९ इ. सू. द्विशब्दात् उत्तरस्य अप् शब्दस्य ईप्) जम्बूद्वीपं अवाप प्राप यो द्वीप परैरन्यैः द्वीपसरस्वदुरकर द्वीपानां सरस्वतां समुद्राणामुत्कर समूह: परीनो वेष्टितः सन् परिवेषिचन्द्रवत् (स्यादेरिवे । ७ । १ । ५२ । इ. मू. साह
येथे वत् ) परिधियुक्त चन्द्रवत् विभाति शोभते इति द्वीपशब्दः पुनपुंसकलिनोज्ञेयः ॥ २७ ॥