________________
५६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
चयोत्पतिष्णुभिः तटेषु ये अचलाः पर्वताः तेषु स्खलन्त्यः आस्फालन्त्यः या चोचयः कल्लोलारतासां चयात् समूहात् उत्पतिष्णवः उत्पतनशीलास्तै । कोऽर्थः इन्द्रस्य साईराजप्रमाणं मार्गमतिक्रम्यागच्छतः सतः यः श्रमो जातः स शीतलैः क्षीरसमुद्रजलकणैः स्फेटितः इति भावः ॥ २४ ॥
प्रभूतभौमोष्मभयंकरः स्फुरन्महाबलेनाज्ञ्जनभञ्जनच्छविः । निजानुजाभेदधियाना घनः पयोधिमध्याभिरय निरेक्ष्यत ॥ २५ ॥
י
+
(०या० ) प्रभूतेति || अमुना इंन्द्रेण धनो (मूर्तिनिचिताऽश्रेधनः । ५ । ३ । ३७ । इ. सू. हन् धातोः अत्रेऽर्थे अल् प्रत्ययः घनादेशश्च निपात्यते ) मेघः निजानुजा मेदधिया निजस्य स्वीयंस्य अनुजस्य लघुभ्रातुः नारायणस्य अभेदधिया ऐक्यद्रया पयोधिमध्यात् समुद्रमध्यात् निरयन् निर्गच्छन् निरेदयत निरपूर्वक ईक्ष धातोः कर्मणि ह्यस्तनी 'दृष्ट: किं लक्षणो मेघः प्रभूतभौमोष्मभयंकरः प्रभूतस्य भूमिसत्कुबाष्पस्य भयंकर (मेघर्तिभ्याम्यात् खः । ५ । १ । १०६ । इ. सू. भयपूर्वक, कृगू धातोः खः । खित्यनव्यय इति : मोन्तः) पुनः किं विशिष्ट: महाबलेन वायुना स्फुरन् पुनः किं विशिष्टः अञ्जनमञ्जनच्छविः कृष्णकान्तिः । नारायण' किं लक्षणः प्रभवः स्वामिनः तेषु 'उतः प्रसिद्धो यो भौमो भौमासुरस्तस्य ऊष्मा गर्वस्तस्य भयंकरः उच्छेदकरः बलेन शरीरसामर्थ्यन बलदेवेन वा स्फुरन्महा' प्रसरतेजाः शेषं स्पष्टमेव विशेषणैः जलदनारायणयोरखैयं यद्यपि जैने मते समुद्रे नारायणः स्वपिति इति वक्तुं न युक्तं परमत्रापि कविरूढि खं ज्ञेया । यथा श्रीकल्पे लक्ष्मीवर्णनं दिग्गजाभिषेकवर्णनमिति ज्ञेयम् ॥ २५॥
दिवस्पते द्यौरहमस्मि सांप्रतं, न सांप्रतं मोक्तुमुपेत्य मां तव । इति स्वर्णाम्बुदगर्जितेन सा, द्रुतं व्रजन्तं किमु तं व्यजिज्ञपत् ||२६||
( व्या० ) दिव' इति ॥ सा द्यौ (दिव औः सौ । २ । १ । ११७ । इ. सू. सौंपरे ' दिवो वस्य ओ । इवर्णादेरंस्वरेस्वरे यवरलम् । १ । २ । २१ ।