________________
५४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
सहोक्तौ । ३ । १ । ११७ । इ. सू. इतरेतरयोग हुन्छ ) इन्दुश्च भारकरश्चतौ चन्द्रसूर्यौ इति अमुना प्रकारेण प्रलोभ्य (प्राक् काले । ५ । ४ । ४७ । इ. स्. ण्यन्तलोभिधातोः पूर्वकाले क्त्वा प्रत्ययः । अनञः क्त्वो यप् । ३ । २ । १५४ । इ. सू क्त्वो यप् ) लोभयित्वा आह्वयत् आकारयति स्म । इतीति कि युवां त्रिजगत्प्रभोः त्रयाणां जगतां समाहारः त्रिजगत् तस्य प्रभुस्तस्य श्रीमदेवस्य विवाहह विवाहस्य हर्म्य तस्मिन् विवाहमंडपे मणिप्रदीपतां मणिसंबंधिमांगलिकरूपदीपत्वं किं न आप्स्यथः अपि तु प्राप्स्यथएवेत्यर्थः । किं लक्षणौ इन्दुभास्करौ कृतातिथेयौ कृतमातिथेयं प्राचूर्णत्वं याभ्यां तौ पुनः किं विशिष्टौ पथि मार्गे संगतौ मिलितौ ॥ २१ ॥
निमेषविश्लेषिसमग्रहरमये, प्रिये सदा सन्निहितेऽत्र वज्रिणि । क्वचिन्न या मुह्यति सा किमायसी, शचीति तं वीक्ष्य जगुः शशिप्रियाः ॥
( व्या० ) निमेपेति ॥ शशिप्रिया मशिनचन्द्रस्य (अतोऽनेकस्वरात् । ७ । २ । ६ । इ. सू. इन् ) प्रिया भार्याः रोहिण्यादयस्तमिन्द्रं वीक्ष्य दृष्ट्वा इति जगुः (धातो' कर्तरि परोक्षा) परस्परमिति जल्पन्ति स्म । इतीति किं साशची इन्द्राणी किमायसी (विकारे । ६ । २ । ३० । इ. सू. विकारे अण् । अजेयेकण् इ. सू. स्त्रियांडी ) कि लोहमयी या शची अत्र अस्मिन् प्रिये इन्द्रे भर्तरि सदा निरन्तरं सन्निहिते समीपस्थे सति कचिन्न मुह्यति मूढत्वं न दवाति । कि लक्षणे इन्द्रे वज्रिण वज्रयुक्ते पुनः कि लक्षणे निमेषविश्लेषि (अजाने गीले । ५ । १ । १५४ । इ सु. शीलेऽर्थे णिन् ) समग्रदृग्मये निमेपरहित समस्तलोचने कोऽर्थ रोहिण्याचा स्वभर्तारं सौम्यं सोमं दृष्ट्वा महत्रलोचनैर्विकगलरूपं वज्रयुक्तं इन्द्रं च दृष्ट्रा गया एव सर्वसहत्वं प्रशंसन्ति न्म | ययपि जैनानामिन्द्रस्य शरीर सहस्रलोचनत्वं नोच्यते तथापि काव्यं कानुरोधेनैव स्यादिति ॥ २२ ॥