________________
श्रीजेनकुमार नावास्यमहाकाव्यम् - टीकासमलंकृतम् ॥ सर्गः २ (५३
* pr
सकलत्राः सुराः देवा; तमिन्द्रं अध्वग मार्गस्थं दगु पश्यन्ति स्म । किं लक्षणाः सुराः, रन्तुमिच्छा रिरंसा तथा रिरंसया क्रीडेच्या लतामयागारश्याः वल्लीमयागारे गृहे शेरते इति । (आधारात् । ५ । १ । १३७ | इ. सू. शीड् धातो अ:) स इन्द्रः तान् सुरानतिवेगतः अपश्यन् अनवलोकयन् त्रपाजडान् त्रपथा जडास्तान् लज्जामूर्खान् न चक्रे । किं लक्षणः इन्द्र अचलमूर्ध्नि पर्वतमस्तके चाचलिः (डौ: सासहि वाहि चाचलि पापति । ५ । २ । ३८ । इ. सू. निपात' ) चलनशीलः चाचलि चाचलिरिति निपातो ज्ञेयः ॥ १९ ॥
I
दिवाकरस्योर्ध्वमधश्च रेजिरे, नभोऽजिरे ये प्रखरांशुदंडकाः । अभी महेन्द्रस्य दिवोऽवरोहतः, करावलम्बत्वमिव प्रपेदिरे ॥ २० ॥
14
1
'
(च्या० ) दिवाकरस्येति || ये दिवाकरस्य दिवाकरोतीति दिवाकरस्तस्य सङ्ख्याऽहर्दिवा-टः । ५ । १ । १०२ । इ. सू. कृग् धातोः टः 1) सूर्यस्य प्रखरांशुदंड्रकाः प्रखराश्चते अंशवः एव दंडकाश्च कठिनकिरणरूपदंडकाः नभोजिरे नभोगणे गगनांगणे उर्थमधरेजिरे (भ्रम(मत्रसफणस्यमस्वनराजभ्राजभ्रासश्लासो वा । ४ । १ । २६ । इ. सू. वा एत्वं ) राजन्ते स्म । ते अमी प्रवरांशुदंडकाः महेन्द्रस्य सौधर्मेन्द्रस्य दिवः आकाशात् अवरोहतः उत्तरत सतः करावलम्बत्वं हस्ताधारत्वमंत्र प्रपेदिरे (अनादेशादेरेकव्यञ्जनमध्येऽतः । ४ । १ । २४ । इ. सू. पद्घातो परोक्षायामेत्वम्) प्रपद्यन्ते स्म । इवशब्दोउत्र शंकायां कोऽर्थ यदा कोडप्रिजन' उर्ध्वभूमितोऽघ उत्तरति तदाबद्धवंशादि अवन्य अधोयाति तथा इन्द्रोऽपि सूर्यकिरणदंडकाधारेण अध उत्तरतिस्मेतिभावः ॥ २० ॥
1
1
विवाहह त्रिजगत्प्रभो युवा, - मवाप्स्यथः किं न मणिप्रदीपताम् । इति प्रलोभ्याह्वयदिन्दु भास्करौ, कृतातिथेयौ पथि संगतौ हरिः ॥
( या० ) विवाह इति ॥ हरिरिन्द्र इन्दु भास्करौ (चार्थे द्वन्द्व