________________
श्री जैन कुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (४९.
A
( व्या० ) त्रिलोकेति ॥ अथोअनन्तरं सुरेश्वरः सुराणां देवानामीश्वर इन्द्र. प्रास्थित चचाल स्था धातु प्रपूर्वक 'संविप्रावात्' इति सूत्रेणात्मनेपदम् । 'अद्यतनीत अघातो' रितिसूत्रेण अडागम | 'इश्व स्थादइतिसूत्रेण आकारस्थाने इकारे कृते सिजघतन्यामि सू. सिच् छुट्हस्वाल्लुगनिटस्तथोः इ. सू. ते परे सिचो लुक् प्रास्थित इति रूपं सिद्धम् । किं लक्षण इन्द्र वैक्रियाङ्ग भृत् देवेन्द्रा भववारणीप्रदेहेनैव लोकान्त भ्रमन्ति । परं मानुष्यलोक मागच्छन्तोहि उत्तरवैक्रियरूपं कुर्वन्तीति वैक्रियाङ्गधारी इन्द्रः इत्यर्थः । किं लक्षणा परमार्हत. महाजैनः । पुन किं कुर्वन् त्रिलोकभर्तुः त्रय अवयवा यस्य सः व्यवयव स चासौ लोकोति त्रिलोकः मध्यमपदलोपी कर्मधारयः तस्य भर्ता स्वामी तस्य जिनेन्द्रस्य विवाहावसरं विवाहस्य अवसरः समयस्तं विदन् जानन् । किं कृत्वा सभ्यान् सदस्यान् विसृज्य त्यक्त्वा । पुनः किं विशिष्ट उपसर्जनीकृतापरक्रियः (कृम्वस्तिम्यां कर्मकर्तृम्यां प्रागतत्तत्वे च्चि: । ७ । २ । १२६ । इ. सू. હસનેનશન્દ્રાત્ अभूत तद्भावे च्चि ईश्वाववर्णस्याऽनव्ययस्य । ४ । ३ । १११ । इ. सू. चौपरे अस्य ई: ।) उपसर्जनीकृताः गौणीकृताः निरादरीकृता इति यावत् अपराः अन्या क्रियाः कर्तव्यानि येन सः ॥ १२ ॥
t
વલ
स्वयंप्रयाणे वद किं प्रयोजनं, समादिशेष्टं तव कर्म कुर्महे । इमाः सुराणामनुगामिनां गिरो, यियासतस्तस्य ययुर्न विभताम् ॥ १३
( व्या० ) स्वयमिति । अनुगामिनां (अजाते शीले । ५ । १ । १५४ । इ. सू. अनुपूर्वक गम् धातो. णिन् प्रत्ययः । गिति । ४ । ३ । ५० । इ. सू. उपान्त्यस्याकारस्य वृद्धि) अनुपश्चाद् गच्छन्तीति अनुगामिन स्तेषां सुराणां देवानां इमा गिर. वाच यियासत याधातो सनिकृते शतृ प्रत्ययः । ) यातु मिच्छतीति यियासति यियासतीति यियासन् तस्य गन्तुमिच्छत तस्य इन्द्रस्य विनतामन्तरायतां न ययु न गच्छन्ति स्म । इमा का हे स्वामिन् वढ स्वयं प्रयाणे किं प्रयोजनं (अनट् । ५ । ३ । १२४ । इ. सू. प्रपूर्वक युज् धातो