________________
श्रीजनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (४७
तत्सनः । ३ । ४ । २१ । इ. सू. हा धातो. सन् । सन्यडश्च । ४ । १ । ३ । इ. सू. द्वित्वम् । सन्यस्य । ४ । १ । ५९ । इ. स. पूर्वाकारस्य इः यजसजमृजराजभाजनजनवपरित्राजः श: प. । २ । १ । ८७ । इति सू. गः प । पढो. कस्ति । २। १ । ६२ । इ. सू. पस्य क । नाभ्यन्तस्थाकवर्गात. पदान्त कृतस्य स शिनान्तरेऽपि ।२। ३ । १५ । इ. स. सस्य पः कप सयोग स । शंसि प्रत्ययात् । ५ । ३ । १०५ । इ. स. स्त्रियामः । आत् । २ । ४ । १८ । इ. सू. आप् ।) अमुष्य दिक्षा अदो दिक्षा तया । जन्तु प्राणी भवे ससारे क्वचित् कुत्रापि एकान्तसुखी नियमेन सुख वान् न भवेत् ॥ ८॥
प्रकृत्य कृत्यान्तरशून्यतां सद-स्थदस्यगीतेन तदा दिवौकसाम् । ध्वनेः खजन्मत्वमसूचित, यदुद्भवो यः स तदाभचेष्टितः ॥९॥
(व्या०) प्रकृत्येति । सदसि सभायां अदस्य गीतन अमुयो तुंबरुनारदयो रिदमदन्यं । अदस्यं च तत् गीतं च तेन तदा तस्मिन्नवसरे दिवौकसां देवानां कृत्यान्तर शून्यता अन्यत् कृत्यं कृषिभूजिशसिगुहिदुहिजपो वा । ५ । १। ४२ । इ. सू कृवातोर्वा क्य५ । ह्रस्वस्य तः पित्कृति । ४ । ४ । ११३ । इ. सू. त् ।) कृत्यान्तर कार्यान्तरं तस्मिन् शून्यतां अचेतनत्वं प्रकृत्य प्रारभ्य ध्वने शब्दस्य वजन्याय सूचितं सुष्टु उचितं यथा भवति तथा असूचि कथितं वैशेषिका शब्दं आकाशस्य गुणं कथयन्ति । यो यदुद्भवः यो यस्मादुत्पद्यते स ताभचेष्टित. (तदस्य सञ्जातं तारकादिभ्य इतः । ७।१।१३८ । इ. सू. चेष्टाशब्दात् इत प्रत्ययः । अवर्णवर्णस्य । ७ । ४ । ६८ । इ. सू. आलोपः) स तत्सदाचेष्टावान् भवति । यदि आकाशं शून्यं कथ्यते तदा तदुद्भवः शब्दोऽपि शून्यताकारी स्थादिति युक्तमेवास्ति ॥ ९ ॥ तदीयगीताहितहत्तया समं, समुज्झिताशेषशरीरचेष्टितः।। स्वभावनिःस्पन्दनिरीक्षणैः क्षणं, न तत्र चित्रप्रतिमाथित न तैः ।।