________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (४५
( व्या० ) निनिन्दुरिति । एके देवा अमरघेनुजं सप्तम्याः । ५ । १ । १६९ । इ. सू. जनेर्ड । ) पय कामधेनु संबंधि दुग्धं निनिन्दुर्निन्दन्ति स्म ।' 'णिदु' कुत्सायामिति धातोः परोक्षाया प्रयोग इयं क्रिया सर्वत्र योज्यते । अपर देवा मरुदहुमाणां मरुतोदेवास्तेषां द्रुमा कल्पवृक्षास्तेषां फलानि तेपा मावलिस्ता निनिन्दु || अपरे सुरा अर्णवालोडनसाधिता अर्णवस्य समुद्रस्या लोडनं मन्थनं तेन साविता तो समुद्रमन्थनप्रकटितां सुधामनृतं निनिंदु । किं कुर्वन्त सुरा प्रभो श्री*पमदेवस्य चरितामृतं चरित्र रूपममृतं पिबन्तः । कोऽर्थ देवानां श्रीयुगादिदेवचरित्रामृतं कामधेनुदग्धकल्पवृक्ष फलसुवानिर्यासादिम्योऽप्यधिकतरं सरसं जातमिति तात्पर्यम् ॥ ४ ॥
श्रवः श्रियं प्रापुरमी प्रभोर्गुणै, वयं वृथा भारकृतः किमास्महे । मुदा शिरः स्वं धुनतां सभासदा, मितीव पेते किल कर्णवेष्टकैः ||५|
( व्या० ) श्रवः श्रियमिति ॥ किल इति सत्ये सभासदां ( किप् । ५ । १ । १४८ । इ. सू. सद् धातो: कि । ) सभायां सीदन्तीति सभासदस्तेषां सभ्यानां कर्णवेष्टनै कुंडले पेते पतितम् अत्र पतने उत्प्रेक्षते इतीव इति कारणादिव इतीति किं अमी सभासद सभ्या प्रभोर्गुणै श्रव श्रियं कर्णशोभां प्रापु' । वृथा मुधा भारकृतः भारं कुर्वन्तीति भारकृतः (किपू । ५ । १ । १४८ इ. सू. कृ धातो. क्विप् हृस्वस्थत 'पिकृति । ४ । ४ । ११३ । इ. सू त्) मुधा भारकारिणो वयं किमास्महे कथं तिष्ठामः । किं कुर्वतां सभासदां मुढा हर्षेण स्वं शिर स्वीयं मस्तकं । धुनतां कर्णवेष्टकान् पुंनपुंसकयोर्ज्ञेय. ||
यशोऽमृतौयः प्रससार तन्मुखा तथा प्रभोः पार्षद निर्जरै र्यथा । अयं श्रवः कूपक हृत्सरःस्वमान् दृगध्वनावामि मुदश्रुभतः ।। ६ ।।
(व्या०) यशोऽमृतौध इति ॥ तन्मुखात् तयोर्मुखं तन्मुखं तस्मात् तुरुनारद्वयोर्मुखात् प्रभो श्रीमदेवस्य । यशोऽमृतौ यशांसि एव अमृ