________________
श्रीजैनकुमारसम्भवाख्यंमहापाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (४३
॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥
तदा हरेः संसदि रूपसम्पदं, प्रभोः प्रभाजीवनयौवनोदिताम् । अगायतां तुंपरुनारदौ रदो-च्छलन्मयूखच्छलदर्शिताशयौ ॥१॥
(व्या०) तदेति । तदा तस्मिन्नवसरे । तुम्बरुनारदौ (चार्थे इद' सहोक्तौ । ३ । १ । ११७ । इ. सू. इतरेतर इन्दः ।) तुम्बरुश्च नारदश्व तुम्वरुनारदौ । हरेरिन्द्रिस्य संसदि (कुत् सम्पदादिभ्यः क्वि५ । ५ । ३ । ११४ ।इ सू सम्पूर्वक सद् बातो विवप् ) सभायां । प्रभोः श्रीऋषभदेवस्य ६५सम्पदं रूपस्य पम्पत् (कुत्सम्पदादिभ्यः क्वि५ । ५ । ३ । ११४ । इ.
सू. सम्पूर्वक पद् धातो स्त्रियां क्विप् ) लक्ष्मीस्ता रूपलक्ष्मीमगायतां गायतः ___ स्म । किं लक्षणां रूपसम्पदं प्रभाजीवनयौवनोदितां प्रभायां (सप्तमी गौण्डायैः ।
३ । १ । ८८ । इ. मु. सप्तमीतत्पुरुष ) जीवनं तदेव यौवनं तस्माददितासु-पन्नां । (पञ्चमी भयाथै. । ३ । १ । ७३ । इ. सू. पञ्चमी तत्पुरुषः) कि लक्षणो तुम्वरुनाग्दो रदोलन्मयूखलदर्शिताशयो रदेभ्यो दन्तेभ्यः उच्छलन्तो ये मयूखा. (विशेषणं विशेष्येण–श्च । ३ । १ । ९६ । इ. सू. विशेषण कर्मधारयः) किरणा तेपां छलेन (१४यत्नाच्छेषे । ३ । १ । ७६ । इ. सू. षष्ठीसमास:) मिषेण दर्शित. (कारकं कृता । ३ । १ । ६८ । इ. सू. तृतीया तत्पुरुष) प्रकटित. आशयोऽभिप्रायो याभ्यां (एकार्थं चानेकं च । ३। १ । २२ । इ. सू. तृतीया बहुव्रीहिः) तौ एतावता विशेषणेन विशदमानसी इति भावः ॥ १ ॥ प्रभुः प्रभांभोनिधिरामरी सभा. किमु स्तुमतौ यदि गातुमुधतौ। मणिमहायः शुचिकान्ति काञ्चनं,कला कलादस्य कलापि वर्ण्यताम् ॥
(व्या०) प्रभुरिति । प्रभु श्रीऋषभदेव प्रभांभोनिधिः प्रभाया. कान्तेरंभोनिधिः समुद्रः वर्तते । सभा आमरी (तस्येदमि. सू. अण् अणजेथेकण-म्