________________
४२) श्रीजेमकुमारसम्मवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
निर्जतापि मनोभवस्थ जनयंस्तस्यैव वामाकुले |
भ्रान्ति कालमसौ निनाय विविधक्रीडारसैः कंचन ॥ ७७ ॥ ( व्या० ) नारीणामिति || असौ भगवान् विविधक्रीडारसैः विविधाश्रताः क्रीडाच तासां रसास्तैः कंचन कालं क्रियन्तं समयं निनायगमयति स्म । कुर्वन् वपुः सौन्दर्येण वपुषः सौन्दर्य तेन शरीरमनोहरवेन निश्रलताकरणात् नारीणां स्त्रीणां नयनेषु नेत्रेषु चापलपरीवादं चपलस्य भावश्चापलं तेन परीवाद: (भावाकर्त्रीः । ५ । ३ । १८ । इ सू. परिपूर्वक द् धातो धञ् । धञ्चुपसर्गस्य बहुलम् । ३ । २ । ८६ । इ. स. परिवाद परि उपसर्गस्य दीर्घ ) तं चपलतया अपवादं विनिन्नन् (शत्रानशा वेष्यतितुसम्यौ | ५ | २ | २० | इ. सू. विनिपूर्वक हुन् धातो. सदर्थे शतृ अनोऽस्य । २ । १ । १०८ । इ. सू. अलुकि हनोह्रोन्न । २ । १ । ११२ । इ. सू. होन । मदित् इ. सू. घुटिपरे नोन्त दीर्घड्याव्-से । इ. सू. सेर्लोप पदस्य । २ । १ । ८९ । इ. सू. संयोगान्तस्य लोपः ) विनाशयन् । कि लक्षणेन वपु सौन्दर्येण बाल्यात् पुरोवर्तिना बाल्यात् अग्रेसरेण वयसा यौवनलक्षणेन विशेषितेन विशेप विशिष्टतां सीतां प्रापितेन । किं कुर्वन् भगवान् मनोभवस्य कामस्य निर्जेतापि वामाकुले स्त्रीवर्गे रूपश्रिया तस्यैव मनोभवस्य भ्रान्ति अयमेव कामदेव इति भ्रान्ति जनयन् उत्पादयन् यो यस्य निर्जेता स्यात् स तस्यैव भ्रान्ति कथमुत्पादयतीति चित्रम् ॥ ७७ ॥
इतिश्रीमद्भञ्चलगच्छे कविचक्रवर्त्तिश्री जयशेखरसूरिविरचित श्रीजैन कुमारसंभवस्य तच्छिष्य श्रीधर्मशेखरो उपाध्यायविरचितटीकायां श्री माणिक्य सुन्दरशोधितायां प्रथमसर्गव्याख्या
समाप्ता ॥ १ ॥
सूरिः श्रीजयशेखरः कविघटा कोटीरहीरच्छवि- ।
धम्मिलादिमहाकवित्वकलना कल्लोलिनी सानुमान् ॥ वाणीदत्तवरचिरं विजयते तेन स्वयं निर्मिते ।
सगों जैनकुमारसंभवमहाकाव्येऽयमाद्योऽभवत् ॥ १ ॥