________________
. ३६) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
अयत्न (यजिस्वपिरक्षियतिप्रच्छो न । ५ । ३ । ८५ । इ. सू. भावे न:) उपक्रम विनैव आनर्यु (अनातोनश्चान्त दादशौ संयोगस्य । ४ । १ । ६९ । इ. सू. अर्थधातादित्व पूर्वस्यात्वं नागमश्च) पूजयामासुः किं लक्षणौ यंदनी मकरदबिन्दुसंदोहवृत्तस्नपनौ मकरन्दस्य विन्दच. तेषां संदोह' समूहस्तेन वृत्तं निष्पन्न नपनं स्नानं ययोत्तौ तौ मकरन्द बिन्दु समूह जातस्नानौ । कि लक्षणे मन्दारमाल्यैः मुकुटाग्रभागष्ट मुकुटानां किरीटानामग्राणि तेभ्यो भ्रष्टानि पतितानि तैः । किं कुर्वन्त. सुरा अनुदिनं (योग्यता विप्सार्थानतिवृत्ति सादृश्ये । ३ । १।४०। इ. सू. विप्सायां अव्ययीभाव.) निरन्तरं नमन्तः नमता स्वयमेव मालापतने स्नान पूजा च स्यात् अतोऽयत्नमित्युक्तमिति ॥६७|| आमोक्षसौख्यांहतिसंधयास्मि-नात्मातिरेकेऽभ्युदिते पृथिव्याम् । अशिश्रिय दरकन्दराणि, संजातलजा इस कल्पवृक्षाः ॥ ६८॥
(व्या०) आमोक्ष इति । कल्पवृक्षाः मंदरकन्दराणि मंदरस्य मेरोः कन्दराणि गुहा अशिश्रियन् आश्रितवन्तः । कथमिति उत्प्रेअन्ते संतातलज्जा इस संजाता ला येषां ते उत्पन्नलजा इव । क सति अस्मिन् भगवति आमोक्ष सोल्यांहतिसंघया आमोक्षात् इति आमोक्षं मोक्षावधि यत् सौख्यं सुख तस्यां हतिदानं तद्विषये संघा प्रतिज्ञा तया । आत्मातिरके आत्मन' अतिरेकोऽधिफत्तस्मिन् । पृथिव्या मयां । अभ्युदिते सति । कल्पवृक्ष रामभ्योऽप्यधिक दातारं भगवन्तं वाक्य लजया मेरुगुहा श्रितेति भावः ॥ ६८ ॥
खर्गायनः स्वनिपतेः सभाया, माविष्कृते कायमृते तदीये । तत्यानतरप्यति नाकिलोके, सुधा गृहीतारमृते मुधाभूत् ॥ ६९ ।।
(व्या०) स्वायनैरिति ॥ सुधा अमृतं ब्रहीतारं ग्राहक तेविना मुधा निकला अभूत् । कस्मिन् सति स्वर्गायन (टनण् । ५ । १ । ६७ । इ. सू. शिपिनि करि टनण) तुंवर नारदाधै गायकैः । स्वर्गिपते (अतोऽनेकस्वरात्