________________
શ્રીનેનમાલક્ષ્મવાથંમદ્ાાવ્યમ્ ટીજાલમહંતમ્ ॥ સર્જ્યોઃ ૨ (કુરૂ
मुख. स्यात् तस्याकुलीनस्यापि संपदः स्युरिति भावः ॥ ६१ ॥
'उक्तं च 'सुप्रसन्नवदनस्य भूपते, यंत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता, दक्षता सुभगता च गच्छति' ॥ १ ॥ बुद्धा नवश्मश्रुसमाश्रितांक - श्रीकं निशोदीतमदोमुखेन्दुम् । केशौघदंभात् किमु पुष्पतारा, -लंकारहारिण्य भिसारिकाऽभूत् ॥ ६६ ॥
(च्या० ) बुद्ध वेति ॥ निशा रात्रिः केशवदभात् केशानामोघ समूहः तस्य ढंभात् मित्रात् अदोमुखेन्दुम् असौ मुखमेवेन्दुः अदोमुखेन्दुस्तं मुखचन्द्र मुदितं बुद्धचा ज्ञात्वा अभिसारिका (णक तृचौ । ५ । १ । ४८ । इ. सू. णक प्रत्ययः । अस्यायत्तत् क्षिपकादीनाम् । २ । ४ । १११ | इ. सू. इः) भूतू 'अलंकृता या प्रियं याति कथ्यते साभिसारिका' । किं लक्षणमदोमुखेन्दुं नवमश्रसमाश्रितांक श्रीकं नवं नूतनं च तत् श्मश्रु च तेन समाश्रित अंकस्य लाञ्छनस्य श्री. शोभायेनतम् नवीनकूर्चाश्रितलाञ्छन शोभम् । कीदृशी रात्रिः पुष्पतारालंकारहारिणी पुष्पाणि कुसुमानि तानि एव तारा तारकाणि तेषा भलंकार आभूषणं तेनहारिणी ( ग्रहादिभ्यो णिन् । ५ । १ । ५३ । इ. सू. कर्तरि णिन् स्त्रियां नृतोऽस्वस्रादेडी: । २ । ४ । १ । इ. सू. डी. ) मनोहरा । यतः शिरसि पुष्पाणि स्युः रात्रौ च तारकाणि स्युरिति भावः । एतावता मुखं पूर्णचन्द्रसमं केशकलापश्च रात्रिसम इति भाव ॥ ६२ ॥
वर्णेषु वर्णः स पुरस्सरोऽस्तु, योऽजस्त्रमाशिश्रियदंगमस्य । अवेपियच्छायलवेऽपि लब्धे, लोके सुवर्णश्रुतिमाप हेम ।। ६३ ।।
(०या०) वर्णेषु इति ॥ स पीतलक्षणो वर्णो वर्णेषु श्वेतरक्तादिषु पुरस्सर : (पुरोऽग्रतोऽप्रेसर्तेः । ५ । १ । १४० । इ. सू. ट' । शषसे शषसं वा । १ । ३ । ६ । इ. सू. वा. र. स.) पुर सरतीति पुरस्सर अग्रेसरोऽस्तु । य. पीतवर्णोऽजस्रं ( स्म्यजस हिंसदीप-रः । ५ । २ । ७९ । इ. सू. नञ् पूर्वज सुधातो. शीलादिसदर्थे रः ) निरन्तरं अस्य भगवत' अङ्गमाशिश्रियत्