________________
१८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
आम् प्रत्ययः तस्माच्च परोक्षान्ताः कृपतयः प्रयुज्यन्ते तेन रमेरपि ज्ञेय.) कोशा लेखा देवा' लसद्विशेषाकृतिवर्णवेषाः आकृतिश्च वर्णश्च वेषश्च आकृतिवर्णवेषा' लसन्तः विशेषा आकृतिवर्णवेषा येषां ते कोऽर्थ देवानां देहः स्वभावेन केश रोम नख मांस चर्म अस्थि वसा रुधिर मलमूत्र रहित शुभवादियुक्त पुद्गल निष्पन्नतेजोमयस्वरूपत्वात् विशेष. ते देवा वैक्रियरूपं कृत्वा सर्वोत्तमवर्णपादि भगवन्त रमयामासुरिति भाव' की भगवन्तं बालं परेषामन्येषां सामान्यानां पुण्यहीनानां असुलभ दुःप्राप्यं । लेखा के इव बालहारा इव यथानृपबालकीडाकारका बालं कटीस्थं रमयन्ति तद्वत् ॥ ३२॥ रसाल सालं प्रति दृत्तष्टौ. श्रोतुं च सूतानि सतृष्णकर्णे । अनन्यकृत्या अभजनमा, यत्र स्वभक्त्याशुकवित्वमुच्चैः ॥३३॥
(या०) रसालसालमिति ॥ अमत्या देवा. यत्र यस्मिन् भगवतिविषये उचैरत्यर्थ स्वभकया निजसेवया सुकवित्वं शुकपनि पक्षे आशुकवित्व शोध. कवित्व अभजन सेवन्ते स्म । कि लक्षणा अमाः अनन्यकृत्याः न विद्यते अन्यत् कृत्यं कार्य येषां ते । कथंभूते भगवति रसालसालं सहकारवृक्षं प्रति दत्ता दृष्टियन तस्मिन् सति पुनश्च कीडशे भगवति सूतानि (क्तक्तवतू । ५ । १ । १७४ । इ. सू. क्तपरे वचः यजादिवचे किति । ४।१ । ७९ । इ. सू. वृत् चज कगम् । २ । १ । ८६ । इ. सू. चस्य कः सुः पूजायाम् । ३।१। ४४ । इ. सू. तत्पुरुषः सुष्टु उतानि) अन्येषां सुभाषितानि श्रोतुं सतृष्णाकर्णे तृष्णया सह वर्तेते एवंविधौ कौँ यस्य तस्मिन् सति ॥ ३३ ॥ परार्थदृष्टिं कलहंसकेकि-कोकादिकेलीकरणरकाले। नीत्वाभिमुख्यं सुखतो यमीश, मुधाभिधानं विबुधैन दधे ॥३४॥
(०या०) परार्थष्टिमिति ॥ विबुधैः देव विबुध इत्यभिधानं नाम मुधा वृथा न दधे न धृतम् ॥ विवुधा देवा विद्वांसश्च कथ्यन्ते । हेतुमाह किं कृत्वा यं ईशं स्वामिनं अथवा यमिन संयमिनस्तेषां ईशं भतार सुखत: (अहीयरुहीऽपादाने । ७।२। ८८ । इ. सू. वा तमु प्रत्ययः) सुखादेव आभिमुख्य