________________
श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (१७
(अड् धातोरादि स्तिन्यां चामाडा । ४ । ४ । २९ । इ. सू. ह्यस्तन्यां अद्यतन्या क्रियातिपत्तौ धातोरादिरखागम' न तुमाड्यागे तेन अत्र माड् योगे न जात:) मा भवतु ॥ २९ ॥ यः खेलनालिषु धूसरोऽपि, कृताप्लवेभ्योधिकमुद्दिदीपे । तारै रनभैः प्रभयानुभानु, रभ्रानुलिप्तोऽप्यधरीक्रियेत ॥३०॥
(व्या०) य इति । धूलिपु खेलनात् कीडनात् धूसरोऽपि यो भगवान् कृताप्लवेभ्यः कृतमाप्लव स्नान यैस्ते तेभ्यः कृतस्नानेभ्योऽप्यधिक उदिदीपे दीप्यतेस्म । अत्र दृष्टान्त अभ्रानुलिप्त अभैर्मधरनुलित आच्छादितोऽपि भानु: सूर्यः अनरम्ररहितैः तारः प्रभया तेजसा किमघरी क्रियेत तिरस्कियेत अपि तु नैव न क्रियेत ॥ ३० ॥ उद्भूतबालोचितचापलोऽपि, लुलोप यो न प्रमदं जनानाम् । कस्याप्रियः स्यात् पवनेन पारि,-प्लयोऽपि मन्दारतरोः प्रवालः ॥३१॥
(व्या०) उद्भूत इति उद्भूतं प्रकटीभूतं वालस्य शिशोः उचित योग्य चपलस्य भावश्चापलं (युवादे रण । ७ । १ । ६७ । इ. सूत्रेणभावेऽर्थे अण) यस्य सः प्रकटीभूतबालोचित चपलमायोऽपि यो भगवान् जनानां लोकाना प्रमदं (समद अमदौ हर्षे । ५ । ३ । ३३ । इ. सू. हर्षेऽर्थे अलन्त' प्रमदो ज्ञेयः ।) हर्ष न लोप न लुतवान् मन्दारतरोः कल्पवृक्षस्य प्रवाल• किशलय पवनेन वायुना पारिप्लयोऽपि चपलोऽपि सन् कस्य पुंसः अप्रियः स्यात् । अपितु न कस्यापीति ॥ ३१॥ लसद्विशेषाकृतिवर्णवेषा, लेखाः परेषामसुलभमभम । यं बालहारा इव खेलनौधैः, फटीतटस्थ रमयांबभूवुः ॥ ३२ ॥
(०या०) लसदिति ॥ लेखा देवा यं भगवन्त अभै बालरूपं कटीतटस्थं (स्थापानान कः । ५ १ । १४२। इ. सू. स्थ. कः ।) कटी एव तटस्तस्मिन् तिष्ठति तं रमयांबभूवुः (धातोरनेकस्वरादाम् परोक्षाया' कृभ्वस्ति चानु. तदन्तम्।।३ । ४ । ४६ । इ. सू: अनेकस्परेभ्यो धातुभ्यः परोक्षाया स्थाने