________________
साहक्षसमवसरणं, भवभयहरणं जगत्रयीशरणम् । न तव पुरा के भन्या, दृष्ट्वा पुरतः परानन्दम् ॥४०॥ भक्त्या धाम मनोरम, सुरनिर्मितसमवसरणविरम् । हृदये भवन्तमीशं, न वयं मिथ्यात्वमतिमृदा ॥ ४१ ॥ सुरतरुरिह तब चरितं, निशम्य मन्ये विदूरतदेशम् । चिन्तातिगफलदातु- बहुधामविगजमानस्य ॥४२॥ अकृतकलाविलासा, दिलातलाभासि केवलालौकात् । भवतोऽधित्यसुकृतं, ससार मूलत. सुजनः ॥४३॥ विज्ञप्तैः पापपारा, वदलितनरकालिमोहनृपकारा । कांस्कानते जिनाना, सुपालिता साधुजनमान्या ॥४४॥ आज्ञायदित्वदीया, लब्धाभवकोटिदुर्लभेहमया । तत्तां कामगावीमपि, नाहं तु समीहया युक्त ॥ ४५ ॥ संसारकान्तारेऽनन्त- भवान्नाथ जन्तुनाऽनेन । दुख वचनातोतं, विना ताज्ञ , जिनाधीग ! ॥ ४६ ॥ त्रिभुवनविदितोयोत, त्वयि दृष्टे यद्यहं न जगदीश ! मोहान्धकारभिदुरे, स कोऽपि दोपो ममैव तदा ॥ ४७ ॥ नित्यं प्रीणितहृदये, भापितनि शेषजन्तुजातदये। विहितान्तरारिविजये, त्वयोक्षिते मोढमहमभये॥४८॥ सितकरसौम्यतरास्ये, योगिजनैतत्त्वतस्तु समुपान्ये । मोह नाहं दास्ये, कथं स्वयीशेश्रितेऽहास्ये ॥ ४९ ॥ अहमिह हरिहरमुख्याऽनेकसुराणां चरित्रमाकर्ण्य । त्वमेव देवदेव, निष्कारणवत्सलं लोके ॥५०॥ भव्यजनेशाधीश्वर !, पवित्रचारिवराधनं सुभतिम् । सततं समीहमान, माममलज्ञाननी निधिः ॥५१॥ पदनतनिर्ज(राजे, भवत्यहं सेवकोऽपि गाढतरम् । तेन त्वदीयसेवा, भवे भवे मे भृशं भयात् ॥ ५२ ॥ गच्छाधिप श्रीजयकीर्तिरि शिष्यो महीमेरुग्हं स्तवं ते । कृत्वा क्रियागुप्तकवित्वमित्थं त्वामेव दव्यां हृदये जिनेन्द्र ! ॥ ५३ ॥
श्री अर्हते नमः विद्यानामनरस्यरूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी या सुखकरी विद्या गुरूणां गुरु विद्या बन्धुजनो विदेशगमने विद्या परादेवता विद्या राजसु पूजिता न तु धनं विद्या विहीन पशु । न जारजातस्य ललाटशृङ्ग कुलप्रमूतेन च पाणिपनम् । यदा यदा मुञ्चति वाक्यबाणं, तदा तदा जाति कुलप्रमाणम् ॥
इह खल तत्रभवन्त सकलकनिशिरोमणय श्रीजयशेखरसूरय 'काव्यं यशसेऽर्थकृते व्यवहारविदेशिवेतरक्षतये । सद्य परनिर्वृतये कान्तासंमिततयोपदेशयुजे' इत्याद्यालंकारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेय साधनताम् 'काव्या.