________________
लापांश्च वर्जयेत्' इत्यस्य निषेधशास्त्रस्यासत्काव्यविपयतां च पश्यन्तो जैनकुमारसंभवाख्यं महाकाव्यं चिकीर्षवश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसंप्रदायाचिच्छेदलक्षणफलसाधनभूतविशिष्टवस्तुनिर्देशात्मकमङ्गलस्य शिष्टाचारपरिप्राप्तत्वात् ' आशीर्न मस्क्रियावस्तुनिर्देशो वापि तन्मुखम्
इत्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् ग्रन्थादौ वस्तु निर्देशात्मकं अस्त्युतरस्येति मङ्गलमाचरन्ति ।
ध्यात्वा श्री शारदां देवीं नत्वा श्री सद्गुरूनपि । कुमारसंभवस्येयं विवृतिर्लिख्यते मया ॥ १ ॥ यस्मैकाव्ययुगप्रदा च वरदा श्रीशारदा देवता श्रीमज्जैनकुमारसभवमहाकाव्यादिकर्ता कलौ । सिद्धान्तोदधिचन्द्रमाः सहृदयश्रेणीशिरः शेखरः सोऽयं श्रीजयशेखराख्यसुगुरु जयाज्जगन्मङ्गलम् ॥२॥ लौकिक काव्यानुसारेण अस्त्युत्तरस्यांदिशीति सप्ताक्षराणि वर्तन्त इति न ज्ञातव्यं किन्तु श्रीस्तंभतीर्थे श्रीमदञ्चलगच्छ गगन प्रभाकरेण सकल विद्वज्जनचित्तचकोर निशाकरेण यमनियमासनप्राणायामाद्यष्टांगयोगविशिष्टेन समाधिध्यानोपविष्टेन निजमतिजित सुरमूरि· परमगुरु श्रीजयशेखरसूरिणा चन्द्रमण्डलसमुज्ज्वलराजहंसरकंघोषितया चंचलकुण्डलाद्याभरणविभूषितया भगवत्या श्रीभारख्यावत्स त्वं कविचक्रवर्तित्वं प्राप्य निश्चिन्त इवासीनः किंकरोपीति प्रोच्य जैनकुमारसंभवं महाकाव्यं कुरु इत्युक्वा अस्त्युतरस्यां १ संपन्नकामानयनाभिरामा २ एतदाद्यं काव्ययुग्मं दत्त्वा विहितसुगसुरसे च श्रीयुगादिदेवसत्कजन्मबालके लियौवनमहेन्द्रस्तवन सुनन्दा सुमङ्गला पाणिग्रहण चतुर्दगत्वमदर्शन भरत संभवप्रातर्वर्णनपुरस्सरं श्रीजैनकुमारसंभवमहाकाव्यं कारितं । तथा लौकिक कुमारसंभवे कुमारः कार्त्तिकेय तस्य संभवश्चात्र कुमारो भरतस्तस्य संभवो ज्ञेय पुत्राश्च सर्वे कुमारा उच्यन्ते अत कुमारसंभव इति नाम्ना महाकाव्यमत्रापि ज्ञायते तेनादौ व्यात्वा श्रीशारदा ।
इति सम् ।