________________
भाजकुमारसम्भवाय महाकाव्यम् टी.सिमलंकृतम् ॥ सर्ग. ११ (३६९
(व्या०) इतीति । अथानन्तरं सुमङ्गला मज्जनस मज्जनस्य स्नानस्य सद्मगृहं स्नानगृहं भेजे । किंकृत्या अहर्दिन तारुण्यं ( पतिराजान्तगुणाराजादिभ्यः कर्मणि च । ७-१-६० । इ. सू तरुणशब्दात् भावेटयण टिस्वात् आदिस्वरवृद्धिः । ) तरुणस्य भावस्तारुण्यं तत् यौवनं आढं निरीक्ष्य दृष्ट्वा । कासु सतीषु तासु सखीषु इति ईरयित्वा कथयित्वा विरतासु सतीषु । किंलक्षण सुमङ्गला स्वयशोनियुक्तधीमजना स्वस्य यशसा नियुक्ता व्यापारिता• धीमन्तो बुद्विमन्तो जना यया सा आत्मीययशसा व्यापारितविद्वज्जना ॥ ६८ ॥ तद्वक्षोजश्रीपौढिमालोक्य हैमः, कुंभमैदाक्षेणेव नीचीमवद्धिः। अभ: संभारभ्राजिभिः खानपीठ, न्यस्तां सख्यस्तां मजयामामुराशु।।
(०या०) तदिति । सख्य (नारी सखोपड्यूश्वश्रू । २-४-७६ । इ सू. सखीशब्दो डयन्तो निपात्यते ।) स्नानपीठन्यरतां स्नानस्य पीठे न्यस्तामुपविष्ट तां सुमङ्गला अम्भ संभारभ्राजिभिः अंभसां जलानां संभारेण समूहेन भ्राजन्ते इति अम्भ संभारभ्राजीनि तै जलसमूहेन शोभमान. मृत हेमै हेम्न विकासः हैमा. ते हैमै (हेमादिभ्योऽञ् । ६-२-४५ । इ. सू. हेमन्शदात विकारेऽथै अञ् भिवात् आदिस्वरवृद्धिः । नोऽपदस्य तद्धिते । ७-४-६१ इ सू. अन्त्यस्वरादेलोप ।) सुवर्णमत्कै कुभै घटै आशु शीघ्रं मज्जयामासुः स्नानं कारयामासुः । किंकुर्वद्भि कुमै उत्प्रेक्षते तद्वक्षोजश्रीप्रौढिं तस्या सुमङ्गलाया वक्षोजी स्तनौ तयो श्री शोभा तस्या प्रौढिस्तां आलोक्य दृष्ट्वा मन्दाक्षेण इव लज्जया इव नीचीभवद्धि (कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्वेच्चि । ७-११२६ । इ. सू. नीचशदात् अभूततद्भावे भूयोगेच्चि । ईश्याववर्णस्याऽनव्ययस्य । ४-३-१११ । इ सू च्चौ परे पूर्वस्य अस्य ई ) न नीचा अनीचा: अनीचा नीचा भवन्त इति नीचीभवन्तस्तै ॥ ६९ ॥ जगद्भर्तुर्वाचा प्रथममथ जंभारिवचसा,
रसाधिक्यात्तृप्तिं समधिगमितामप्यनुपमाम् । स्वरायातर्भक्ष्यैः शुचिमुवि निवेश्यासनवरे,
बलादालीपाली चटुघटनयाऽभोजयदिमाम् ॥ ७० ॥