________________
३६८) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः ११ किंकुर्वन् पान्थत्रातः"मृगतृष्णिकाभिर्मूगजलैर्विमुह्ययन् विमुह्यतीति विभुह्यन् ६५ अमी निमीलन्नयना विमुक्त-बाह्यभ्रमा मौनजुषः शकुन्ताः । श्रयन्ति सान्द्रद्रुमपर्णशाला, अभ्यस्तयोगा इवनीरजाक्षि ॥६६॥
(व्या०) अमीति । हे नीरजाक्षि (असहनब् विधमानपूर्वपदात् स्वाहादकोडादिभ्यः । २-४-३८ । इ. सू. स्त्रियां नीरजपूर्वकअक्षिशब्दात् डीर्वा ।) नीरे जाते नीरजे कमले ते इव अक्षिणी यस्याः सातस्याः संबोधनं क्रियते हे कमललोचने अभी निमीलन्नयनाः निमीलन्ति नयनानि येषां ते निमील्यमानलोचनाः विमुक्तबाह्यभ्रमाः बाह्यश्चासौ भ्रमश्च विमुक्तो बाह्यभ्रमो यैस्ते । मौनजुषः मौनं जुषन्ते इति मौनजुषः (किप् । ५-१-१४८ । इ. सू. मौनशब्दपूर्वकजुषधातोः किप् प्रत्ययः ।) एवंविधाः शकुन्ताः पक्षिण: सान्द्रद्रुमपर्णशालाः सान्द्राश्च ते माश्च तेषां पर्णशालाः पर्णः पत्रनिर्मिताः पर्णशालास्ता निबिडवृक्षपत्रशालाः श्रयन्ति । उत्प्रेक्षते अभ्यस्तयोगा इव अभ्यस्तो योगो यैस्ते इव ॥ ६६ ॥ उदीयमानोऽकृतलोककर्म-साक्षीत्यभिख्यामयमाहितार्थाम् । भास्त्रानिदानीं तु कृतान्ततात, इति त्विषा त्रासितसर्वसत्तः ॥६७॥
(व्या०) उदीयमानः इति । अयं भास्पान् भासोऽस्य सन्तोति भास्वान् सूर्यः उदीयमानः उदीयते इति उदीयमानः सन् लोककर्मसाक्षी लोकानां कर्मणां साक्षी ( साक्षाद्रष्टा । ७.-१-१९७ । इ. सू. साक्षात् शब्दात् द्रष्टा इत्यर्थे इन् प्रत्ययः । प्रायोऽव्ययस्य । ७-४-६५। इ. सू. इन परे अन्त्यस्परादेलक । ) इति अभिख्यां नाम आहितार्थ आहितोऽर्थो यस्यां सा तां सत्यार्थी अकृत कृतवान् तु पुनः इदानीं अधुना कृतान्ततातः कृतोऽन्तो नाशो येन स कृतान्तो यमस्तस्य तातः पिता इति अभिल्यां आहितार्थी सत्यार्थी अकृत । किविशिष्टः सूर्यः त्रासितसर्वसत्त्वः सर्वे च ते सत्त्वाश्च सर्वसत्त्वाः (पूर्वकालैकसवजरत्पुराणन केवलम् । ३-१-९७ । इ. स. कर्मधारयसमासः।) सर्वप्राणिनः त्रासिता. त्रासं गमिताः सर्वसत्त्वा सर्वप्राणिनो येन सः त्रासितसर्वसत्वः ६७ इतीरयित्वा विस्तासु तासु, तारुण्यमारूढमहनिरीक्ष्य । सुमङ्गलाथ स्वयशोनियुक्त-धीमजना मजनसम भेजे ॥ ६८ ॥