SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीजनमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ११ (३६७ ललाटं तापयन्तीति ललाटन्तपाः (ललाटवातात्तिपाऽजहाकः ५-१-१२५ । इ. सू. ललाटपूर्वकतपधातोः खश् प्रत्ययः । खित्वात् मोऽन्तः । ) २२मय एव दंडाः रश्मिदंडाः ललाटन्तपाश्च ते रश्मिदंडाश्च सैः लोकं उत्साय परत्र कृत्वा ६२ पद्मं श्रियः सम बभूव भानो, करैरधृमायत सूर्यकान्तः। मतुः प्रसादे सदृशेऽपि सम्प-त्फलोपलब्धिः खलु दैववश्या ॥६३॥ (व्या०) पद्ममिति । भानोः सूर्यस्य करैः किरणैः पद्मं कमलं श्रियः लक्ष्म्याः सभागृहं बभूव । सूर्यस्य करैः सूर्यकान्तः अधूमायत (क्यड् । ३-४२६ । इ. सू. धूमशब्दात् आचारेऽर्थे क्यड् । कित्वात् आत्मनेपदम् । ) धूमवदाचरितः । भर्तुः स्वामिनः प्रसादे सहशेऽपि तुल्येऽपि सम्पन्फलोपलब्धिः सम्पदा फलानामुपलब्धिः लक्षणया फलावाप्तिः खल्ल निश्चितं दैववश्या दैवस्य वश्या देवायत्ता स्यात् ॥ ६३ ॥ यः कोऽपि दधे निशि राजशब्द, दिगन्तदेशानियता ययौ सः। . दधासि कस्योपरि तिग्मभावं, पान्थैःश्रमात रविरेवमुचे॥ ६४॥ (व्या०) य इति । श्रमातैः श्रमेण आता. तैः श्रमाकुलैः पान्थैः (नित्यं णः पन्थश्च । ६-४-८९ । इ. सू द्वितीयान्तात् पथिन् शब्दात् नित्यं याति इत्यर्थे णप्रत्ययः पथश्च पन्धादेश. पन्थानं नित्यं यान्ति इति पान्थाः।) पथिकै रविः सूर्यः एवमूचे । एवमिति किं यः कोऽपि निशि रात्रौ राजशब्दं राजा इति शब्दस्तं दधे धरति स्म । स इयता दिगन्तदेशान् दिशामन्ताः तेषां देशास्तान् ययौ । तर्हि कस्योपरि तिग्मभावं तिग्मंश्वासौ भावश्च तं तीव्रत्वं दधासि ॥६॥ तोयाशया धावित एष पान्थ-तातो विमुह्यन् मृगतृष्णिकाभिः । अप्राप्य तोयं क्षरदश्रुपूरै-रुत्थापयत्यम्बु किलोषरेऽपि ॥ ६५ ॥ (व्या०) तोय इति । एष पान्थबात. पान्थानां व्रातः पान्थत्रातः पथिकसमूहः तोयाशया तोयस्य जलस्याशा तया जलस्येच्छया धावित सन् तोयं जलं अप्राप्य न प्राप्य क्षरदश्रुपरैः क्षरन्ति च तानि अश्रूणि च तेषां पूरैःसमूहै: किल इति सत्ये उपरेऽपि अम्बु ऊत्थापयन्ति ऊपरस्थानेऽपि जलं प्रकटं करोति ।
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy