________________
३६६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम्॥ सर्गः ११
तद्धिते । ७-४-६१ । इ. सू. अट् परे अन्त्यस्वरादेर्लुक् । ) देवानां राजा देवराजस्तस्मिन् इन्द्रे वाग्विलासैः वाचां विलासास्तैः श्रोत्रोत्सव - श्रोत्रयोरुत्सवस्तं कर्णात्सवं वितन्वति वित्तनोतीति वितन्वन् तस्मिन् कुर्वति सति । कालः किमेवं अमुना प्रकारेण कुतुकैः आश्चर्यैः प्रयाति ॥ ५९ ॥ विज्ञापयचक्रुरथालयस्तां, विमुग्धचिते गतचिन्तयालम् । स्नातुं च भोक्तुं च यतस्व पश्य, खमध्यमास्कन्दति चंडरोचिः ६० ( व्या० ) विज्ञापयां चकुरिति । अथानन्तरं आलयः सख्यः तां सुमङ्गलां विज्ञापयांचकुः । हे विमुग्धचित्ते विमुग्धं चित्तं यस्याः सा तस्याः संबोधनं क्रियते गतचिन्तया गतस्य चिन्ता तथा अलंपूयतां पश्य विलोकय । चंडरोचिः चंडे रोचिर्यस्य सः सूर्यः खमध्यं खस्य मध्यं तत् आस्कन्दति आक्रामति । त्वं स्नातुं स्नानं कर्तुं च अन्यत् भोक्तुं भोजनं कर्तु यतस्व उपक्रमं कुरु ॥६०॥ अहो अहः प्राप्यकृतप्रयत्नः शनैः शनैरुच्चपदोपलब्धौ । करे खरीभूय नयस्थ तत्रं, व्यनक्ति सुरेष्वपरेषु, सूरः ॥ ६१ ॥ ( व्या० ) अहो इति । अहो इति आश्चर्ये सूरः सूर्यः अह दिनं प्राप्य शनैः शनैः उच्चपदोपलब्धौ उच्चं च तत् पदं उच्चपदं तस्य उपलब्धौ प्राप्तौ कृतप्रयत्नः कृतः प्रयत्नो येन सः सन् करे किरणे खरीभूय कठोरो भूत्वा अपरेषु सूरेषु भटेषु नयस्य ज्ञेयस्य तत्वं व्यनक्ति प्रकटीकरोति । दिवसे प्राप्ते सति उच्चपदप्राप्त्यर्थ प्रयत्नः क्रियते करे दंडे च खरत्वं क्रियते इति भावः ॥ ६१ ॥ लोकं ललाटन्तपरमिदंडे, रुत्सार्यभानुर्विजनीकृतेषु । सरस्स्ववक्रान्वियदन्तरस्थः, कोडे करान्न्यस्यति पद्मिनीनाम् ॥६२॥
( व्या० ) लोकमिति । भानुः सूर्य. विजनीकृतेषु विगता जना येभ्यस्तानि विजनानि न विजनानि अविजनानि अविजनानि विजनानि कृतानीति विजनीकृतानि तेषु निर्जनेषु सरस्सु सरोवरेषु पद्मिनीनां क्रोडे उत्संगे वियदन्तरस्थः वियत अन्तरे तिष्ठतीति आकाशमध्ये स्थितः सन् अवक्रान् न वकाः अवका स्तान अवक्रान् करान् न्यस्यति व्यापारयति । किंकृत्वा ललाटन्तपरश्मिदंडे: