________________
श्री जैन कुमारसम्मपापं महाव्यम् ही समलंकृतम् ॥ सर्गः ११ (२६५
2
न चन्दनं चन्द्रमरीचयो वा न वाप्यपाचीपवनो वनी वा । सितानुविद्धं न पयः सुधा वा, यथा प्रमोदाय सतां वचांसि ॥५७॥
( व्या० ) नेति । न चन्दनं वा अथवा चन्द्रमरीचयः चन्द्रस्य मरीचयः किरणाः न अपाचीपवनः अपाच्याः पवनः दक्षिणदिशः पवनः दक्षिणपवनः अथवा वनी महद्वमं वनीसितानुविद्धं सितया शर्करया अनुविद्धं शर्करा मिश्र पयो वा दुग्धं वा अथवा सुधा अमृतं तथा प्रमोदाय हर्षाय न स्युः । यथा सतां सत्पुरुषाणां वचांसि वचनानि प्रमोदाय स्युः ॥ ५७ ॥ अङ्गुष्ठयन्त्रार्दनया ददानौ, रसं रसज्ञा सुधियां रसज्ञे । सुधां प्रकृत्वा किरती परेष्टु-स्तनेक्षुयष्टी न नधिकरोति ॥ ५८ ॥ . ( व्या० ) अड्गुष्ठ इति । सुधियां शोभना घीर्येषां ते सुधियः तेषां रसज्ञा रसंजानातीति रसज्ञा (आतोडोडावामः । ९-१-७६ । इ. सू. रसशब्दपूर्वकज्ञाघातो. ड प्रत्ययः डित्वात् अन्त्यस्वरादिलोपः अदन्तत्वात् खियामापू । ) जिह्वा परेण्टुस्तनेक्षुयष्टी परेष्टु बहुप्रसूतागौ तस्याः स्तने: इक्षोर्यष्टिः परेण्टुस्तनश्च इक्षुयष्टिश्च द्वौ न न धिक्करोति अपि तु धिकरोति तिरस्करोत्येव । किंविशिष्टौ द्वौ परे स्तनेक्षुयष्टी अड्गुष्ठयन्त्रार्दनया अड्गुष्ठश्च यन्त्रश्च तयोरर्दनापीडना तथा रस ददानौ ददाते इति उदानौ । किंविशिष्टा रसज्ञा रसज्ञे रसं नानातीति रसज्ञस्तस्मिन् पुरुषे प्रकृत्या स्वभावेन सुधाममृतं किरती विस्तारयन्ती || ५८ ॥ अवेदि नेदीयसि देवराजे, श्रोत्रोत्सवं तन्वति वाग्विलासैः ।
दिनो न गच्छन्नपि हन्त सख्यः, कालः किमेवं कुतुकैः प्रयाति ॥५९॥ ( व्या० ) अवेदि इति । हे सख्य हन्त इति वितर्के मया दिनो गच्छन् I गच्छतीति गच्छन् अपि न अवेदि न ज्ञात । क सति नेदीयसि अतिशयेन अतिक इति नेदीयान् ( गुणाङ्गाद्वेष्ठेयम् । ७-३-९ । इ. सू अन्तिकशब्दात् तरविषये ईयसुप्रत्ययः बाढान्तिकयोः साधनेदौ । ७-४-३७ इ. सू. ईयसौ परे अन्तिशब्दस्य नेदादेश: । ) तस्मिन् प्रत्यासन्ने देवराजे ( राजन् सखेः । ७-३-१०६ । इ. सू. देवपूर्वक राजन् शब्दात् अट् समासान्तः । नोऽपदस्य
•