________________
३६४) श्रीजनकुमारसम्भवाच्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः ११
महं न्यासोचिता न्यासस्य उचिता संवासयोग्या नास्मि । यत् यस्मात् कारणात् स एष इन्द्रः वाणीरसे वाण्या वाचायारसस्तस्मिन् असमाप्तकामां न समाप्त असमाप्त: असमाप्तः कामो यस्याः सा तां असंपूर्णाभिलाषां मां विहायमुक्त्वा विहाय आकाशं ययौ ॥ ५४ ॥ यस्यामृतेनाशनकर्म तस्य, वचासुधासारति युक्तमेतत् । पातुः पुनस्तत्र निपीयमाने, चित्रं पिपासा महिमानमेति ॥ ५५ ॥
. (व्या०) यस्थेति । यस्य इन्द्रस्य अमृतेन अशनकर्म अशनस्य भोजनस्य कर्म आहारो वर्तते । तस्य इन्द्रस्य वच. सुधासारति सुधाया अमृतस्य आसार धारावृष्टिः सुधासार इव आचरति सुधासारति (कर्तु. विप् गल्भक्लीबहोटात्तु डित् ३-४-२५ । इ. सू. आचारार्थे सुधासारशब्दात् विप् प्रत्यय 1) अमृतवृष्टिरिव भवति एतद् युक्तम् । पुनश्चित्रं आश्चर्य तत्र वचसि निपोयमाने निपीयते इति निपीयमानं तस्मिन् सति पातु पिबतीति पाता तस्य पिवत' पुरुषस्य पिपासा पातुमिच्छा पिपासा तृप्णा महिमानं महतो भावो महिमा तं महिमान (पृथ्वादे रिमन् वा । ७-१-५८ । इ. सू महत शब्दात् भावे इमन् वा । त्र्यन्तस्वरादे । ७-४-४३ । इ. सू अन्त्यस्वरादेलक) महत्त्वं एति प्राप्नोति ॥५५॥ न मार्जितावत्कवलेन लेह्या, न क्षीग्वचाञ्जलिना निपेया। अहो सतां वाग् जगतोऽपि युक्त-पीतातिरिक्तां विदधाति तुष्टिम् ५६
(व्या०) नेति । अहो इति आश्चर्ये सतां वाक् मार्जितावात् (स्यादेरिवे । ७-१-५२ । इ सू सादृश्येऽर्थे मार्जिताशब्दात् वत् प्रत्यय मार्जिता इव मार्जितावत् ) रसवत् भोजनवत् कवलेन प्रासेन लेह्या न आस्वाचा वर्तते । च अन्यत् सतां वाग् क्षीरवत् ( स्यादेरिवे । ७-१-५२ । इ सू. सादृश्येऽर्थे क्षीरशदात् वत् प्रत्ययः क्षीरमिव क्षीरवत् । ) पानीयवत् अञ्जलिना निपेया निपातुं योग्या पेया न वर्तते । सतां वाग् जगतोऽपि विश्वस्यापि भुक्तपीतातिरिक्ता भुक्तं च पीतं च भुक्तपीते ताभ्यां अतिरिक्ता अधिका भुक्तपीतातिरिक्त तां भोजनात् क्षीरपानात् विशेषकारिणी तुष्टिं विदधाति ॥ ५६ ॥