________________
श्रीजनमारसम्भापमहाव्यम् टीपासमलंकृतम् सगः ११ (३६३
सा पमिनीवानघचक्रवन्धौ, क्षणात्तमः श्याममुखी बभूव ॥५२॥
(व्या०) तस्मिन् इति । अथानन्तरं तस्मिन् इन्द्रे आलोकपथात् आलोकस्य पन्थाः आलोकपथ(*क्पू पथ्यपोऽत् । ७-३-७६ । इ. सू. आलोकपूर्वकपथिन् शब्दात् अत् प्रत्ययः । ) स्तस्मात् दर्शनमार्गात् विभिन्ने पृथग्भूते सति सा सुमङ्गला पमिनी इव क्षणात् तमः श्याममुखी ( नखमुखादनाम्नि । २-४-४० । इ. सू. मुखशब्दात् स्त्रियां डी ।) तमसा विषादेन श्यामं मुख वदनं यस्या सा बभूव जाता । किविशिष्टे इन्द्रे हृन्नेत्र राजीवविकाशहेतौ हृदयं च नेत्रे च एतेषां समाहारो हुनेत्रं (प्राणितुर्याङ्गाणाम् । ३-१-१३७ । इ. सू. प्राण्यङ्गत्वात एकार्थद्वन्दः । ) तदेव राजीवं कमलं हृदयकमलनयनकमलानां विकाशः तस्य हेतु कारणं तस्मिन् । पुनः अनघचक्रवन्धौ न विद्यते अघं पापं येषां ते अनघा निष्पापा तेषां चक्रे समूह बन्धौ बन्धुसदृशे पक्षे अनघे निर्दूपणे चक्रबंधो सूर्ये आलोकपथात् विभिन्ने सति कमलिनी तमःश्याममुखी स्यात् तथा सा सुमङ्गला जाता ॥ ५२ ॥ अवोचदालीरुपजानुपाली-भृय स्थिता गद्गदया गिरा सा । अतृप्त एवात्र जने रसस्य, हला बलारियरमत् किमुक्तः ॥ ५३ ॥
(व्या०) अवोचत् इति । सा सुमङ्गला गद्गदया गिरा स्खलिताक्षरया वाण्या उपजानु (विभक्तिसमीपसमृद्भिव्ययर्थाभावात्ययाऽसप्रतिपश्चातक्रमख्यातियुगपत् सहक-म् । ३-१-३९ । इ. मू समोपेऽर्थे अव्ययीभावः ।) समीपे पालीभय श्रेणीभय स्थिता एवंविधा आली सखीरवोचत् । हे हला सख्य बलारि बलस्य अरि इन्द्र अत्र अस्मिन् मल्लक्षणे जने रसस्य अतृप्ते एव उक्तवचनत कियरमत् विरराम ॥ ५३ ॥ दौःस्थ्यं किमस्यापि कथाप्रथासु, न्यासोचिता वा किमु नास्मि तासाम् । वाणीरसे मामसमाप्तकामा, विहाय यसैष ययौ विहायः ॥ ५४॥
(व्या०) दौःस्थ्यमिति । अस्यापि इन्द्रस्य कथाप्रथासु कथानां प्रथास्तासु किंदौ स्थ्यं दु स्थस्य भाव दारिद्रयं वर्तते । वा अथवा तासां कथाप्रधानां कि