________________
३६२) श्रीज कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम्। सर्ग:११
ब्दात् व्यण णित्वात् वृद्धिः ।) दारिद्रयं तस्य निरासे निष्ठा यस्य सः दारिद्रयनिराकरणतत्परः । एवंविधोऽयं गर्भगः गर्भ गछतीति तव पुत्र: महोयाः महतीचासौ उर्फ च महोर्वी तस्या. महापृथिव्याः पद्मराग इव प्रयत्नात् महोद्यमात् न नपाल्यः अपि तु पालनीय एव ॥ ४९ ॥ गीर्वाणलोकऽस्मि यथा गरीयां-स्तथा नृलोके भविता सुतस्ते । वयस एवात्र सहवयस्य-संपर्कसौख्यानि गमी ममात्मा ॥ ५० ॥
(व्या०) गीर्वाण इति । अहं गीर्वाणलोके गीर्वाणानां लोकस्तस्मिन् देवलोके यथा गरीयान् (गुणाङ्गाद्वेष्ठेय मू । ७--३-९ । इ. सू. गुरुशदात् अतिशयेऽर्थे ईयसुः । प्रियस्थिरस्फिरोरुगुरु-म् । ७-४-३८ । इ. सू. ईथसुपरे गुरोगरादेशः । ) अतिशयेन गुरु: अस्मि । तथा नृलोके नृणां लोकस्तस्मिन् मनुष्यलोके तव सुतः पुत्रो गरीयान् भविष्यति । वयस्थे एव वयसि तिष्ठतीति वयस्थं तस्मिन् एव यौवनं प्राप्ते एव सुते मम आत्मा सहग्ययस्यसंपर्क सौख्यानि सक् चासौ वयस्य (धपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुभ्यागार्हपत्यजन्यधर्म्यम् । ७-१--११ । इ. सू. मित्रेऽर्थे वयस्यान्दो यान्तो निपात्यते)श्च तस्यसंपर्कसनमस्तस्य सौख्यानि तानि सक्षमित्रसमागमसुखानि गमी गमिष्यतीति गमी (वय॑ति गम्यादिः । ५-३-१ । इ. मू इन-तो गमिन् निपात्यते ।) ॥५०॥ इत्युक्तिभिष्टसिताम्बुमेघ-श्लाघाममोघां मघवा विधाय । तिरोदधे व्योमनि विद्युदर्चि:-स्तोमं स्वभासा परितो वितत्य ॥५१॥
(व्या०) इतीति । मधवा इन्द्र इति उक्तिभिः पूर्वोक्तवचनैः वृष्टसिता. म्बुमेघश्लाघां वृष्टं सिताया शकराया उदकं येन स वृष्टसिताम्बु स चासौ मेघश्च तस्य श्लाघां प्रशंसा तां अमोघां न मोघा अमोघा तां सफलां विधाय कृत्वा तिरोढधे अदृश्यो बभूव । किंकृत्वा व्योमनि आकाशे स्वभासा स्वस्य भाः तया आत्मीयकान्त्या परितः समन्ततो विधुदर्चिःस्तोमं विद्युतः अपिस्तेजांसि तेषां स्तोमं समूहं वितत्य विस्तार्य ॥ ५१ ॥ तस्मिन्नथालोकपथाद्विभिन्ने, हृन्नेत्रराजीवविकाशहेतो