________________
श्रीजैनमारसम्भवाय महाव्यम् टीपासमलंकृतम् ॥ सर्गः ११ (३६१
संबोधनं क्रियते अष्टापदनामधेयः अष्टापद इति नामधेयं (नामरूपभागाद् धेयः । ७-२-१५८ । इ. सू. नामशब्दात स्वार्थे धेयप्रत्ययः नाम एव नामधेयम् ।) यस्य स भूमृदर भुवं विभ्रतीति भूभृत पर्वतास्तेपु वरः श्रेष्ठः पर्वतमुल्यो राजा उदारशोमा उदारा चासौ शोभा च तां किं न भर्ता न धरिष्यति । अपि तु धरिष्यत्येव । क सति अमुना तव पुत्रेण विहारनिभे विहारस्य निभे सहशे प्रासाढसदृशे मणिस्वर्णमये मणिस्वर्णनिर्मिते किरीटे मुकुटे मूर्ध्नि मस्तके निवेशिते सति । यत् उच्यते उत्सेबागुलदीर्घयोजनमितं क्रोशत्रयं चोच्छ्रितं विस्तारे भरताधिराजविहित गव्यूतमात्रोद्वरम् । एकाहनिशवामनित्यशिवदं कैलासभूषामणि नाम्ना सिंहनिषाद्यभुत्तममहं चैत्य स्तुवे सर्वदा राजापि शिरसि मुकुटे निवेशिते शोभां प्राप्नोति । अष्टापदेनापि प्रासादेन शोभा प्राप्तेति भाव ॥४७॥ तथैष योगानुभवेन पूर्व-भवे स्वहस्तेऽकृत मोक्षतत्वम् ।। स्वरूपवीक्षामदकर्मबन्धात्-त्रातुं यथा सत्स्यति तद्रयेण ॥ ४८ ॥
(व्या०) तथेति । एपः तव सुत पूर्वभवे पूर्वश्चासौ भवश्च पूर्वभव(पूर्वापरप्रथम चरमजघन्यसमानमव्यमध्यमवीरम् । ३-१- १०३ । इ. मू पूर्वशब्देन सह भवशब्दस्य कर्मधारय समास ।) स्तस्मिन् योगानुभवेन योगस्य अनुभवस्तेन योगमामर्थ्येन स्वहस्ते स्वस्य हस्तस्तस्मिन् स्वकरे मोक्षतत्त्वं मोक्ष इति तत्वं मोक्षतत्त्वं तत् तथा अकृत । यथा तत् मोक्षतत्त्वं रयेग वेगेन स्वरूपवीक्षामदकर्मबधात् स्वरूपस्य वीक्षा वीक्षणं तया मदस्य कर्मणो बधस्तस्मात् त्रातुं रक्षितुं आसत्स्यति आसन्न भविष्यति ॥ ४८ ॥ एवं पुमर्थप्रथने समर्थः, प्रभानिधि :स्व्यनिरामनिष्ठः । पाल्यो महोास्तव पद्मराग, इव प्रयत्नान्न न गर्भगोऽयम् ।। ४९ ॥ - (व्या०) एवमिति । हे देवि एव अमुना पूर्वोक्तप्रकारेण पुमर्थप्रथने पुमर्थानां प्रथन तस्मिन् पुरुषार्थविस्तारणे समर्थ प्रभानिधि प्रभाणा निधि । नै व्यनिरासनिष्ठ निर्गत स्व धनं यस्य सः नि स्व. निःस्वस्य भावो नै ख्य (पति(जान्तगुणाझराजादिभ्यः कर्मणि च । ७-१-६० । इ. सू नि स्वश