________________
___३६०) श्रीजनकुमारसम्भवायं महाव्यम् टीकासमलंकसम सर्ग:११
फालेय ६ महाकाले ७ माणगमहानिही ८ संखे ९ । एतेषु एते पदार्थाः स्युः पुर १ कण २ भूसण ३ स्थण ४ वत्थ ५ सिप्पा ६ गरणे ७ सत्थणे ८ नाडय ९ उप्पत्तिकमासनामसुरठियनिहीणं ।। २ ।। पादपइदाणा अधुररोहये नवयविकसभा । बारसजोयणमंजू ससंदिया जक्ष वीयमुहे ॥ ३ ॥ ४ ॥ न मानवीष्वेव समाप्तकामा, प्रभामयीं मूर्तिमुपेतयासो। समाः सहस्रं सुरशैवलिन्या, समं समेष्यत्युपभोगभङ्गीः ॥ ४५ ॥
(व्या०) न इति । हे देवि असौ तव पुत्र. मानवी(तस्येदम् । ६३-१६० । इ. सू. मनुशब्दात् इदमर्थे अण् । अणजेयेकण-म् २.-४-२० इ. सू. ङी । ) एव न समाप्तकाम: समाप्तः कामो यस्य सः असंपूर्णाभिलाषः सन् प्रभामयीं (प्रकृतमयट् । ७-३-१। इ सू. प्रचुरेऽथै प्रभाशब्दात् मयः टित्वात् डी. 1 ) कान्तिमयी मूर्तिमाकृतिमुपेतया प्राप्तया सुरशैवलिन्या सुराणां देवानां शैवलिनी नदी तथा गङ्गया समं सहस्र समा. सहस्र वर्षाणि उपभोगभङ्गी उपभोगानां भङ्ग यस्ताः विलासादिसुखविष्छिती: सभेष्यति प्राप्स्यति ॥ ४५ ॥ सत्वर्मिकान् भोजयतोऽस्य भक्त्या, भक्तैर्विचित्रः शरद समुद्रान् । भक्तश्च भुक्तश्च रसातिरेक, वक्तुं भविष्यत्यबुधा बुधाली ।। ४६ ॥
(व्या०) सत् इति । हे देवि तव अस्य सुतस्य सम्यक्त्वधारिणः १॥ सचित्तपरिहारिणः २ । एकाहारिणः ३ । ब्रह्मचारिण ४ । सत्यव्यवहारिणः ५। बादशनतधारिणः ६ ॥ ईगषट्रीयुक्तान साधर्मिकान् सुश्रावकान् भक्त्या विचित्रः शालिदालिपकानवृतधोला_भक्तैरने शरदां वर्षाणां समुद्रान् कोटाकोटी: भोजयतः सतः भक्तेश्च अन्यत् भुक्तेश्च रसातिरेक रसस्य अतिरेकस्तं रसाधिक्य चक्तुं जल्पितुं बुधाली बुधानामाली वुधाली विद्वतश्रेणि: अवुधा न बुधा अबुधा मूर्खा भविष्यति ॥ ४६ ॥ निवेशिते मृHमुनाविहार-नीमाणिस्वर्णमये किरीटे। सुभ्र भर्ता फिमुदारशोभा, भूभृद्वरोऽष्टापदनामधेयः ॥ ४७॥ (व्या०) निवेशिते इति । हे सुभ्रु शोभने भ्रुवौ यस्याः सा तस्याः