________________
श्रीजैन कुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः ११ (३५९
( व्या० ) अस्येति । हे देवि ते सर्वप्रसिद्धाः सदानवाः दानवसहिताः दनुजारयः अपि दनुजानामरयोऽपि मागघवरदामप्रभास सिन्धुखंडप्रपातगुफातमिस्रगुफासत्कप्रभृतिदेवा अपि अस्य तव पुत्रस्य लास्यं नाट्यं समुपास्य कृत्वा अस्य तव पुत्रस्य डास्यं यास्यन्ति । किंविशिष्टा दनुजारयः इ५ पुंखाक्षरवीक्षणे इपोर्वाणस्य पुंखोऽन्तिमभागस्तस्मिन् अक्षराणां वीक्षणेन दर्शनेन क्षरन्मदाः क्षरन् मदो येषां ते नश्यनुगः । किंकुर्वतोऽस्य संख्यं संग्रामं सतन्वतोऽपि तनोतीति तन्वन् न तन्वॆन् अतन्वन् तस्य अकुर्वतोऽपि ॥ ४२ ॥ अस्मिन् दधाने भरताभिधानमुपेष्यतो भूमिरियं च भीश्र । विद्वदुभुवि स्वात्मनि भारतीति ख्यातौ मुदं सत्प्रभुलाभजन्माय् ।
3
( व्या० ) अस्मिन् इति । अस्मिन् तव पुत्रे भरताभिधानं भरत इति अभियानं तत् दधाने सति धत्ते इति दधानस्तस्मिन् इयं भूमिः पृथ्वी च अन्यत् -गी सरस्वती च विभुवि विदुषां भू तस्यां विद्वद्भुवि विद्वज्जनस्थाने स्वात्मनि -स्वस्यात्मा तस्मिन् आत्मविषये भारतीति ख्यातौ सत्यां सत्प्रभुलाभजन्मां संश्चासौ प्रभुश्च तस्य लाभ प्राप्ति तस्मात् जन्म यस्याः सा तां सुस्वामिप्राप्तिसमुत्पन्नां सुदं हर्ष उपेयतः प्राप्स्यतः । विद्वांस इति वदन्ति भरतस्य इथं भारती भरतक्षेत्रभूमि सरस्वती च ॥ ४३ ॥ उदच्यमाना अपि यान्ति निष्ठां, सूत्रेषु जैनेष्विव येषु नाथः । तेषां नवानां निपुणे निधीनां, स्वाधीनता वत्र्त्स्यति ते तनूजे ॥४४॥
( व्या० ) उदच्यमाना इति । येषु निधिपु उदयमाना अपि निष्काश्यमाना अपि अर्था द्रव्याणि निष्ठां क्षयं न यान्ति केषु इव सूत्रेषु इव । यथा जैनेषु सूत्रेषु आगमेषु अर्था निष्ठां न यान्ति । तद्यथा - सव्व नईणं जाहुज्यवा
या सव्व उदहिजं नीरं इत्तोवि अनंतगुणो अनंतसो अत्थसुत्तस्स ॥ १ ॥ इति न्यायात् आगमोऽर्थनिष्ठां न यातीति भावः । हे निपुणे तेषां नवानां निधीनां स्वाधीनता स्ववशता ते तव तनूजे पुत्रे वत्स्थति भविष्यति । अमूनि नवनिधानानि ज्ञेयानि । नेसप्पे १ पेडुथए २ पिंगल ३ सव्वरयण ४ महपहुने प