________________
३७०) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ११
( व्या० ) जगदिति । आलीपाली आलीनां पाली सखीश्रेणिः शुचिभुवि शुचिवासौ भूश्च तस्यां पवित्रभूमौ आसनवरे आसनेषु वरं तस्मिन् श्रेष्ठासने इमां सुमङ्गलां बलात् निवेश्य निवेशयित्वा इति निवेश्य उपवेश्य स्वरायातैः स्वरात् आयातानि तै स्वर्गात आगतैर्भक्ष्यै भोजनै चटुघटनया चढूनां घटना तया चाटुवचनरचनया अभोजयत् किंलक्षणां सुमङ्गला प्रथमं जगद्भर्तुर्जगतां भर्ता तस्य श्रीस्वामिनो वाचा वचनेन अथ अनन्तरं जंभाविचसा जंमारेरिन्द्रस्य बचो वचनं तेन इन्द्रस्य वाण्या रसाधिक्यात् रसस्य आधिक्यं तस्मात् अनुपमामपि न विद्यते उपमा यस्याः सा ता तृप्तिं समविगतामपि प्राप्तामपि ॥ ७० ॥ सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छवि, मिलादिमहाकवित्वकलनाकल्लोलिनीसानुभाक् ।
वाणीदत्तवरविरं विजयते तेन स्वयं निर्मिते,
सर्गो जैनकुमारसंभवमहाकाव्येयमेकादशः ॥ १ ॥ इतिश्रीभद्र चल गच्छकविचक्रवर्त्तिश्री जयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्य श्रीधर्मशेखर महोपाध्यायकृतायां टीकायां श्री माणिक्य सुन्दर सुरिशोबिताया एकादशसर्गव्याख्या
समाप्ता ॥ ११ ॥
Sc
"
'सुरासुरनराधीश - सेव्यमानपदाम्बुज । नाभिगजाङ्ग जोनित्य, श्रीयुगादिजिनो मुदे || १ || श्रीमदञ्चलगच्छेश-जयशेखरनूरय । चत्वारस्तैर्महाग्रन्था, कविशनैर्विनिर्मिता ॥ २ ॥ प्रबोधश्चोपदेशश्च चिन्तामणिकृतोत्तरौ । कुमारसंभव काव्य, चरित्रं धम्मिल्लस्य च ॥ ३ ॥ तेपा गुरूणां गुणवंधुराणा, शिष्येण धर्मोतरशेखरेण । श्रीजैन कौमारकसंभवोया, सुग्वाय वोधाय कृतेति टीका ||४|| देशे सपादलक्षे, सुखलक्ष्ये पद्यरे पुरप्रवरे । नयनवसुवार्धि चन्द्रे || १४८३ वर्षे हर्षेण निर्मितासेयम् ||५|| विहृत्पद्मविकाराने दिनकरा मृगेश्वरा भास्वरा, माणिक्योतरसुन्दरा कविवग कृत्वा प्रसाद परम् । भक्ता श्रीजयशेखरे निजगुरौ शुद्धामकार्षुर्मुद्रा, श्रीमज्जैन कुमार संभव महाकाव्यस्य टीकामिमाम् ॥६॥ यावन्मेरुर्महीपीठे, स्थिरतां भजते भृशम् । वाच्यमाना जनैस्ताव - ट्टीकासौ नन्दताम्रिम् ॥७॥