________________
શ્રીને
માલમવાગ્યે મઢાવ્યમ્ ટીપાતમĐતમ્ ॥ લઃ ૨૦ (૪{
( ०या० ) दिन इति । अयं समीर: वायु, भुवि पृथिव्यां किं एण्यच्छूर भीत्या एष्यतीति एष्यन् सचासौ शूरश्च तस्मात् भीतिस्तया आगामिष्यतः सूर्यात् सुभटाद्वा भीत्या भयेन अव्यवस्थं न विद्यते व्यवस्था मर्यादा यस्मिन् कर्मणि यथा भवति तथा व्यवस्थारहितं भ्रमति । किंकृत्वा वलीलता. किञ्चित् आधूय घुवित्वा । किंलक्षणः समीरः दिनवदनविनिद्रीभूतराजीवराजी परमपरिमलश्रीतस्करः दिनस्य वदनं दिनवदनं प्रभातं विगता निद्रा यस्याः सा विनिद्रा न विनिद्रा अविनिद्रा अविनिद्रा विनिद्रा भूता इति विनिद्रीभूता दिनवदने विनिद्रीभूता विकखरा या राजीवानां कमलानां राजी श्रेणिः तस्याः परमश्चासौ परिमलच तस्य श्रीर्लदगी' तस्यास्तस्करचौर । पुनः सरिदपहतशैत्यः सरितो नद्या अपहृतं गृहीतं शैत्यं येन सः सरिदपहृतशैत्यः । अन्योऽपि योऽपराधी स शूदात् बिभेति । कमलपरिमलहरणे वायोरेकोऽपराधः नद्याः शीतत्वहरणे द्वितीयोऽपराधः वल्लीधूनने परदारलम्पटत्वलक्षणस्तृतीयोऽपराधः । वायुश्च शीतो मन्दः सुरभिश्च त्रिगुणो वर्ण्यते इति भावः ॥ ८१ ॥
लक्ष्मी तथा परमथात्मपरिच्छदं च, मुञ्चन्तभागमित योगमिवास्तकामम् । वेशमल्परुचिर्मुज्झति कामिनीव,
तं यामिनी असरमम्बुरुहाक्षि ५२५ ॥ ८२ ॥ ·
( व्या० ) लक्ष्मीमिति । हे अम्बुरुहाक्षि अम्बुनि जले रोहतः इति अम्बुरुहे कमले तद्वत् अक्षिणी नेत्रे यस्था सा अम्बुरुहाक्षी तस्याः संबोधनं क्रियते हे कमललोचने पश्य विलोकय । यामिनी रात्रि कामिनी इव प्रसरं उज्झति त्यजति । किं कृत्वा ईशं स्वामिनं तं चन्द्र अल्परुचि अल्पा रुचि कान्तिरिच्छा बा यस्य तं अल्पप्रकाशमल्पेच्छं वा दृष्ट्वा विलोक्य किं कुर्वन्तं चन्द्रं लक्ष्न तथा अम्बरमाकाशं वस्त्रं च अथ आत्मपरिच्छद (पुन्नानघ ५-३-१३० । इ. सू. संज्ञायां परिपूर्वकछादयतेर्घः । एकोपसर्गस्य च घे । ५-४-३४ । इ. सू. ह्रस्वः 1 ) आत्मनः परिच्छदस्तं आत्मपरिवारं च मुञ्चन्तं मुञ्चतीति मुश्चन् तँ