________________
↑
:
રૂ૪૦) શ્રીનેનમાલમવા> માિત્મ્યમ્ ટીૉલમôવમ્ ñ ર્યા किं ततः सुचरिताद् द्विजन्मना - मग्रभोजनिकताभयं गमी ॥ ७९ ॥ ( व्या० ) जादिति । हे स्वामिनि जाग्रदेव जागतति जामदेव मृदु:खो यस्य सः सुकोमलशब्दो द्विकः द्वौ ककारौ नानि यस्य सः द्विकः काकः यत् तव प्रियं अभीष्टं वक्ति वदति । किंविशिष्टो द्विकः शान्तदिग्मुखः शान्तायां दिशि मुखं यस्य स । ततस्तस्मात् सुचरितात् सदाचरणात् अयं द्विको दिनमनां द्वे जन्मनी येषां तेषां ब्राह्मणानां अग्रभोजनिकतां भोजनिकभावो भोजनिकता अग्रेभोजनिकतां गमी गमिष्यतीति गमी (वत्स्थति गम्यादिः ५-३-१ ।। इ. सू. भविष्यत्यर्थे इन्नन्तो निपातः ॥ ७९ ॥
सुदति नदति सोऽयं पक्षिणां चंडदीधित्युदय समय नश्यनेत्रमोहः समूहः ।
रजनि रजनि दूरेऽस्माध्शां स्वैरचार
प्रमथनमथ नृत्यत्पक्षतीनामितीव ॥ ८० ॥
(०या० ) सुदति इति । हे सुदति शोभनाः दन्ताः यस्याः सा सुदती ( वयसि दन्तस्य दतृः । ७-३ - १५१ । इ. सू. सुपूर्वस्य दन्तस्य बहुव्रीहौ दः ऋदित्वात् खियां ङी: 1) तस्याः संबोधनं क्रियते । सोऽयं पक्षिणां समूहो नदति शब्दयते । किंलक्षणः पक्षिणां समूहः चण्डदीधित्युदयसमयनश्यन्नेत्र मोह : चण्डा उमा दोषितयः किरणा यस्य स चंडदीधितिः सूर्यस्तस्य उदयस्य समयः तस्मिन् नश्यन् नेत्राणां मोहो निद्रा यस्य किंविशिष्टानां पक्षिणां नृत्यन्त्यः पक्षतयो ( पक्षतिः । ७-१-८९ । इ. सू. पक्षशब्दात् मूले अर्थे तिप्रत्ययः पक्षाणां मूलानि पक्षतयः ।) येषां ते नृत्यत्पक्षतयस्तेषाम् । उत्प्रेक्षते - इतीव । इतीति किम् अथानन्तरं अस्मादृशां स्वैरचारप्रमथनं स्वैरं चारः स्वेच्छाचारस्तस्या प्रमथनं स्फेटनं रजनिः दूरेऽजनि जाता इतीव ॥ ८० ॥ પિનવિનિદ્રીભૂતાનીવાની,
परमपरिमल श्रीतस्करोऽयं समीरः ।
સારવપદતચૈત્યઃ વિશિવાયનછી,
भ्रमति भुवि किमेष्यच्छ्ररमीत्याऽव्यवस्थम् ॥ ८१ ॥