________________
३२२) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १०
(व्या०) कार्यमिति । हे विमलशीलशालिनि विमलं च तत् गीले च विमलशीलं निर्मलशीलं तेन शालते इति विमलगोलशालिनी तस्याः संबोधनं हे निर्मलशीलशोभिते एतत्कार्य तब कि आकस्मिकमुत्सुकमजनिष्ट जातम् । यत पुरा पूर्व चाटुकोटिभिः चाटूना कोटयस्ताभिः भवेश्म भर्तुर्वेश्म तत् स्वामिगृहं व्रजसि यतो यस्मात्कारणात् । तत् स्वयमगा गतवती ॥ ३७ ॥ तद्भविष्यति फलोदये स्फुटं, गूढचारिणि चिरादपि स्वयम् । किन्तु नः प्रकृतिचञ्चलं मन:-काललालनमियन्न सामहि ॥ ३८ ॥
(व्या०) तद् इति हे गूढचारिणि गूढं चरतीति हे प्रग्छन्नगमने तत् कार्य चिरादपि बहुकालतोऽपि स्वयमात्मना फलोदये फलस्य उदयस्तस्मिन् सति स्फुटं प्रकट भविष्यति । किन्तु नोऽस्माकं मनश्चित्त प्रकृतिचञ्चलं प्रकृत्या स्वभावेन चञ्चलं चपलं सत् इयत् काललालनं कालस्य लालनं कालविलंब न सासहि (डो सासहि वावहि चाचलि पापति । ५-२-३८ । इ. मू. ड्यन्तो निपातः भृशं सहते इत्येवंशीलं सासहि । ) न सहते ॥ ३८ ॥ सिञ्च न स्त्वमखिलाः स्वकार्यवाक्-शीकरैः समयभङ्गतापिताः। सर्वदैकहृदयं सखीगणं, मा पृथग्गणनयाऽवजीगणः ॥ ३९ ॥
(व्या०) सिञ्च इति । त्वं समयभङ्गतापिता: समयस्य भङ्गेन तापिताः खाः मर्यादाभङ्गेन तापयुक्तानोऽम्मान् अखिला समस्ता सखी कार्यवाक्शीकरैः कार्यस्य वाग् सा एव शीकरा: कार्यवचनरूपजलकणै सिञ्च । सर्वदा (किंयत्तसवैकान्यात् काले दा। ७-२-९५ । इ. सू. कालेऽर्थे सर्वशब्दात् दाप्रत्ययः सर्वस्मिन् काले इति सर्वदा ।) निरन्तरं एकं हृदय यस्य स एकहदयस्तं सखीनां गण. सखीगणस्तं सखीसमूहं पृथग्गणनया मा अवजोगण मा अवगणय ॥३९॥
सा सखीभिरिति भाषिता रमे-वोरुपद्ममणुपद्मवेष्टितम् । अध्यशेत शयनं समन्ततः, सन्निविष्टवरविष्टरावलि ॥ ४०॥
(व्या०) सा इति । सा सुमङ्गला सखीभिरिति अमुना पूर्वोक्तप्रकारे भाषिता जल्पिता सती शयनं पल्यवं अध्यशेत आश्रिता । किंलक्षणं शयनं