________________
श्रीजग मारसम्भवास्थ महाकाव्यम् टीकासमलंधतम् ॥ सर्गः १० (३२१
युक्तमेव यदि वा विनिर्मित, सर्व विद्दयितया त्वया सखि । तमोगुणजिता विमुच्य नो, रुच्यसम्र विकसझना गता ॥३४॥
(व्या०) युक्तमिति । हे सखि यदि वा अथवा सर्वविद्दयितया सर्व वेत्तीति सर्पविद् तस्य दयिता तया सर्वज्ञपल्या त्वया युक्तमेव योग्यमेव विनिर्मित कृतम् । यत तमोगुणजिता. तमोगुणेन निद्रया जितास्ता नो अस्मान् विमुच्य त्वं विकसमाना विकसत विकस्वरं मनो यस्याः सा प्रफुल्दया सती रुच्यसमा (रुच्याऽव्यथ्यवास्तव्यम । ५-१-६ । इ. सू. रुच्चातो. कर्तरि यो निपात्यते। रोचते इति रुच्य. 1) भर्तगृहं गता ॥ ३४ ॥ स्वामविन न वयं विनिर्यती, जातसिद्धिमिव ही प्रमद्वराः । म.मेतमनपेतचेतना, दध्महे स्वहृदि शल्यवत्पुरा ॥ ३५ ॥
(या०) वामिति । हे स्वामिनि ही इति खेदे वयं प्रमद्वारा प्रमादिन्य त्वां जातसिद्धिमिव जाता सिद्धिः दृष्टयावरणादिसिद्धिर्यस्याः सा तामिव विनिर्यती निर्गच्छन्ती न विद्मः न ज्ञातवत्यः । एतं मन्तुमपराधं अनपेतचेतनाः न अपेत अनपेतं चेतनं यासां ता वलितचेतनाः सत्यः वयं स्वहदि स्वस्य हृदये शल्यवत् शल्यमिव पुग दध्महे धास्यामः । पुरा यावतोवर्तमाना इति सूत्रेण पुरायोगे भविष्यदर्थे वर्तमाना ॥ ३५ ॥ विश्ववन्धधुपारिपार्श्विको-ऽस्त्येव ते सततमप्सरोजनः । वेधसा हि वयमेव वञ्चिता, यत्कृता भवदुपासनादहिः ॥ ३६ ॥
(व्या०) विश्व इति । हे विश्ववन्धवधु विश्वस्य वन्य पूज्य तस्य वधू तस्याः संबोधने हे त्रिभुवनाधीशदयिते अप्सरोजन अप्सरसां जन देवाङ्गनासमूहः सततं निरन्तरं ते तव पारिपार्श्विक परिपार्श्वे वर्तते इति समीपस्थोइत्येव । हि निश्चितं वेधसा ब्रह्मणा वयमेव वश्चिता. । यत् वयं भवदुपासनात् भवत उपासनं तस्मात् त्वदीयसेवनात् बहि कृता विमुखोता. ॥ ३६ ॥ कार्यमेतदजनिष्ट किं तवा-कस्मिकं विमलशीलशालिनि । यत्पुरा ब्रजसि चाटुकोटिभि-भर्तृवेश्म तदगाः स्वयं यतः ॥ ३७॥