________________
३२०) श्रीजनकुमारसम्भवाख्यं महाकाव्यम टीकासमलंकतम सर्ग:१०
सह यथा भवति तथा समुत्थिताः सत्यः संनिपत्य संनिपतित्वा इति संनिपत्य समुदायं कृत्वा तां सुमङ्गला परिवत्रुः परिवृण्वन्ति स्म । किंलक्षणां सुमङ्गलां उच्छ्वसजलरुहाननां जले रोहतीति जलरह उछ्वसत् च तत् जलरुहं उच्छ्वसजलरहमिव आननं यस्या. सा तां विकसकमलसदृशमुखीम् । कामिव पनिनीमिव यथा मधुव्रतालय. मधु व्रतयन्ति भुञ्जते इति मधुनता (डस्युक्तं कृता । ३-१-४९ । इ. सू. तत्पुरुषसमास ।) भ्रमरास्तेपामालयो भ्रमरश्रेगय. प्रो प्रभाते विकसकमलमुखी पमिनी परिवृण्वन्ति ॥ ३१ ॥ ऊचिरे त्रिचतुग पुरस्सरी-भूय भक्तिचतुरा रयेण ताः । तां प्रणम्य वदनेन्दुमण्डला-भ्यासकुड्मलित पाणिपङ्कजाः ॥३२॥
(व्या०) ऊचिरे इति । त्रिचतुरा. (सुज्वाथै सङ्ख्या सख्ये सत्यया बहुव्रीहिः । ३-१-१९ । इ सू त्रिचतुरा' इत्यत्र बहुव्रीहि समास । नञ् सुव्युपत्रेश्चतुरः । ७-३--१३१ । इ. सू त्रिशब्दपूर्वकचतुरन्तात् बहुनोहे: अप् समासान्तः । ) तिस्रो वा चतस्रो वा भक्तिचतुरा. भक्त्या चतुरास्ता आलयः संख्यः पुर सरीभूय पुर सरन्तीति पुरःसराः ता. भूत्वा पुर सरीभूय अग्रे भूत्वा तां सुमङ्गलां प्रणम्य प्र नत्वा प्रणम्य रयेग वेगेन ऊचिरे ऊघु । किंलक्षणाः सख्यः वदनेन्दुमण्डलाभ्यासकुड्मलितपाणिपङ्कजा वदनमाननमेवेन्दो-श्चन्द्रस्य मण्डलं तस्याभ्यासे समीपे कुड्मलिते कोशीकृते पाणी हस्तावेव पङ्कजे अरविन्दे याभिस्ताः वदनेन्दु० पङ्कजा ॥ ३२ ॥
एवमाजनुरसंस्तुतो भवे-धः स एव शयितो विमुच्यते । उच्यते किमथवा तव प्रभु-नापरस्य परिभाषणोचितः ॥ ३३ ॥
(०या०) एवमिति । हे स्वामिनि यो जनः आजनु ( पर्यपाडबहिर पञ्चम्या ३-१-३२ । इ. सू आडा सह अव्ययीभावः ।) आजनुष. आजन्म असंस्तुत: न संस्तुत: अपरिचितो जनो भवति । स एव जन एवं शयित सुप्तो विमुच्यते । अथवा तव किमुच्यते । प्रभुः स्वामी अपरस्य परिभाषणोचितः परिभाषणस्य उचितो योग्यो न भवति जल्पनयोग्यो न भवति ॥ ३३ ॥
नेन्दु० पङ्कजा "
एव शयिता १
॥३३॥