________________
श्रीजैनमारसम्भवाय महाव्यम् टीकासमलं शतम् ॥ सर्गः १० (३१९
सुमङ्गला । नौपक्षे अर्थो द्रव्यं तेन परिपूरित आशयो मध्यं यस्याः सा । सार-संमदमहाबलेरिता सारः प्रधानो यः संमदो (संमदप्रमदी हर्षे । ५-३-३३ । इ. सू. अलन्त' संमदशब्दो निपात्यते । ) हर्षस्तस्य महता बलेन महास्थाना ईरिता प्रेरिता । पक्षे महाबले वायुज्ञेयः महावायुप्रेरिता नौरिच नौका इव स्वं 'निकेतनं आत्मीयं गृहमियाय जगाम ॥ २८ ॥
तत्र चित्रमणिदीपदीधिति-ध्वस्यमानतिमिरे ददर्श सा । पानशौंडमिव लुप्तचेतनं, सुप्तमन्तरखिलं सखीजनम् ।। २९ ॥
(व्या०) तत्रेति । सा सुमङ्गला तत्र तस्मिन् निकेतने गृहे पानशौंडमिव प्यानेन शौंडस्तं सुगपानमत्तमिव लतचेतनं ल चेतनं ज्ञानं यस्य स तं अन्तभव्ये सुप्तं अखिलं समस्तं सखीनां जनः सखोजनस्तं ददर्श दृष्टवती । किंविशिष्टे निकेतने चित्रमणिडोपदीधितिध्वस्यमानतिमिरे चित्राश्चते मणीनां दीपाश्च आश्चर्यकररत्नदीपा तेषां दीधितय. किरणास्तैः ध्वस्यमानं निराक्रियमाणं तिभिरमन्धकारो यस्मिन् तस्मिन् ॥ २९ ॥ सोऽध्वगत्वचपलाङ्गसङ्गतो-न्मेषिधोषमणिमेखलादिभिः । निद्रयाऽजगरितोऽपि जागरं, द्रागनीयत तया विना गिरम् ॥३०॥ ___ (व्या०) स इति । तया सुमङ्गलया स सखोजन' अध्वस्वचपलाङ्गसजतोन्मेषिघोषमणिमेखलादिभिः अध्वस्य भावः अवगत्वं मार्गगत्वं तेन चपलं च तत् अङ्गं च शरीरं तस्मिन् संगता मिलिता या उन्मेषी घोषो यस्याः सा विकस्वरनादा मणीनां मेखला सा एव आदयस्तैः । गिरं वाणी ( विना ते तृतीया च । २-२-११५ । इ. सू. विनायोगे गिरमित्यत्र द्वितीया ।) विना द्राक् शीघ्रं जागरं अनीयत गृहीतः । किविशिष्टः सखीजन: निद्रया जागरितोऽपि अजगरित' अजगरवदाचरितः ॥ ३० ॥
तां ससंभ्रमसमुत्थितास्ततः, सभिपत्य परिवरालयः। उच्छ्वसजलरुहाननां प्रगे, पमिनी मिव मधुव्रतालयः ॥ ३१ ॥
(०या०) तामिति । ततस्ततोऽनन्तरमालयः सख्यः ससंभ्रमं संभ्रमेण