________________
३१६) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १०
चिन्महः चिदेव महस्तत् ज्ञानतेज स्पृशति अपि न । किंविशिष्टं चिन्मह स्वपरभासि स्वस्य आत्मन. परस्य अन्यस्य भासि प्रकाशकम् ॥ १९ ॥ जाड्यहेतुनि हिमर्तु संकटे, याति याऽतिकृशतां रवेः प्रभा । तां गिरस्तव सदेव दिधुतो, लज्जते बत सपत्नयन्न कः ॥ २० ॥
( व्या० ) जाड्य इति । हे नाथ या रखे. सूर्यस्य प्रभा कान्तिर्जाड्यहेतुनि जडस्य भावो जाड्यं जडत्वं तस्य हेतु कारणं तस्मिन् हिमर्तुसंकटे हिमतः संकटं तस्मिन् सति अतिकृशतां याति तां प्रभां सदैव दिद्युत ( दिधु दह-जगज्जुहू वाक्प्राधी श्री ज्वायतस्तूकटपरित्राट्म्राजादय किप् ५ - २ - ८३ इ. सू. शीलादिसदर्थे किन्त दिद्युत् निपात 1 ) द्योतते इति दिद्युत् तस्याः दीप्यमानायास्तव गिरो वाण्या बत इति वितर्के सपत्नयन् सदृशीकुर्वन् क पुमान् न लज्जते अपि तु सर्व कोऽपि लज्जते ॥ २० ॥
बिभ्रता मतिमतीन्द्रियां त्वया, वस्तुतत्वमिह यन्निरौच्यत । नेतरेतदपरेण जन्तुना, दुर्बचं प्रतनुबुद्धितन्तुना ॥ २१ ॥
( व्या० ) बिभ्रता इति । हे नेतः स्वामिन् त्वया इह जगति अतीन्द्रिय (प्रात्यवपरिनिरादयो गतक्रान्तनुष्टम्लानकान्ताद्यर्था. प्रथमाद्यन्ते । ३-१-४७ इ. सू. तत्पुरुष: 1) इन्द्रियाणि अतिक्रान्ता तां इन्द्रियातीतां मतिं बुद्धिं बिभ्रता बिभर्तीति बिभ्रत् तेन घरमाणेन वस्तुतत्त्वं वस्तूनां तत्त्वं यत् निरौच्यत प्रोचे । एतत् वस्तुतत्त्वं अपरेण जन्तुना प्रतनुबुद्धितन्तुना प्रतनु कृशो बुद्धिरेव तन्तुयस्य तेन दुर्वचं (दुस्वीपत कृच्छ्राकृछ्रार्थात् खल् । ५ -३ - १३९ । इ. सूदु पूर्वकवचधातोः खल् प्रत्यय 1 ) दु खेन वक्तुमशक्यमित्यर्थ ॥ २१ ॥ अस्तु वास्तवफलस्य वास्तु ते वाग्लता त्वरितमेवमूचुपी । वासवेश्म निजमाश्रयेति सा शासनं सपदि पत्युरासदत् ॥ २२ ॥
,
( व्या० ) अस्तु इति । सा सुमङ्गला निजं वासवेश्म वासस्य वेश्म तत् वासभवनं आश्रय इति अमुना प्रकारेण पत्यु श्री ऋषभदेवस्य शासनमादेशं आसदत् प्राप । किंविशिष्टा मुमङ्गला हे स्वामिनू ते तव बागूलता वाग् एव