________________
श्रीजैनमारसम्भवास्यं महाकाव्यम् टीपासमलंकृतम् ॥ सर्गः १० (३१७
लता वाग्वल्ली वास्तवफलस्य वास्तवस्य फलं तस्य सम्यक्फलस्य वास्तु (वसन्ति अत्र इति वास्तु । वसेर्णिद्वा ७७४ । इ. उ. सू वसं निवासे इ. धातोः तुन् प्रत्ययः स च णित् णित्त्वात् वृद्रिः । ) स्थानं अस्तु भवतु एवं ऊचुषी उवाच इति ऊचुषी जल्पितवती ॥ २२ ॥
दत्तदक्षिणभुजा निजामने, गर्भगे धरणीपाकशासने । सोदतिष्ठदतनुस्तनावनी-भृत्तटीललितहारनिर्झरा ॥ २३ ॥
(व्या०) दत्त इति । सा सुमङ्गला धरणोपाकशासने धरण्याः पृथिव्याः पाकशासन इन्द्रस्तस्मिन् चक्रवर्तिनि गर्भगे गर्भ गच्छतीति गर्भगस्तस्मिन् उदरस्थे सति निनासने निजस्य आसनं तस्मिन् दत्तदक्षिणभुजा दक्षिणश्चासौ भुजश्व दक्षिणभुजः दत्तो दक्षिणभुजो यया सा सती उदतिठत् उत्थिता । किविशिष्टा सुमङ्गला अतनुस्तनावनीमृत्तटीललितहारनिर्झरा । न तनू अतनू स्थूलौ अतन च तौ स्तनौ अतनुस्तनौ तौ एव अवनीभृतौ पर्वतौ अतनुस्तनावनीभृतौ तयोस्तयां तटे ललिताश्च ते हाराश्च ललिताः सविलासा: हारा एव निर्झरा यस्याः सा॥२३॥ फुल्लमल्लिकाभिदं वनं किमु, स्मेरकैरवगणं सरोऽथवा । एवमूह विवशा निशामयं-त्यभ्रमक्रमविकीर्णतारकम् ॥ २४ ॥ बिभ्यती स्खलनतः शनैः शनैः, प्रांजलेऽपि पथि मुञ्चती पदौ । अल्पकेऽपि भवनान्तरे गते, स्तानवेन भवनान्तरीयिता ।। २५ ॥ कौतुकाय दिविषत्पुरंधिभिः, स्वं तिरोहितवतीभिरग्रतः । शोध्यमानसरणिः शिरस्यथा, धीयमानधवलातपत्रिका ॥ २६ ॥ रत्नभित्तिरुचिराशिभासिते-नाध्वना ध्वनितनुपूरक्रमा। वायुनावसरवेदिनेव सा, दम्यमानगमनश्रमाऽचलत् ॥ २७ ॥
(चतुर्भिः कलापकम् ) (व्या०) फुलमिति । अथानन्तरं सा सुमङ्गला रत्नभित्तिरुचिराशिभासि तेन रत्नानां भित्तयस्तासां रुचय कान्तयस्तासां राशि समूहः तेन भासितेन दीपितेन अध्वना मार्गेग अचलत् । किंकुर्वती एवममुना प्रकारेण ऊहविवशा