________________
श्रीजैनमारसम्भवाल्यं महाकाव्यम् टीकासमलंतम् ॥ सर्गः १० (३१५
(या०) शैल इति । हे नाथ एकं ज्ञानं नेत्रयुग्मं नेत्रयोयुग्मं अतिशय्य अतिशयित्वा इति अतिशय्य (विऽतियि शय् । ४-३-१०५ । इ. सू. अनिपूर्वकशीड्धातोः यपि परे शय् आदेशः । ) जित्या वर्तते । किलक्षणं ज्ञान अनलीकसंगतं न अलीकमसत्यमनलीकं सत्यं तेन संगतम् । नेत्रयुग्मं तु अलीकेन ललाटेन संगतं मिलितं भवति । पुन शैलसागरवनीभि. महदनं वनी शैलाश्च (ज्योत्स्नादिभ्योऽण् । ७-२-३४। इ. सू. मत्वर्थ शिलाशब्दात् अण् णित्त्वात्वृद्धिः शिलाः सन्ति एषु इति शैला । ) पर्वताः सागराश्च समुद्रा वन्यश्वमहद्वनानि ताभिः पर्वतसमुद्रमहवनादिभिः अस्खलत् न स्खलतीति अस्खलत् स्खलनां न प्राप्नुवत् । पुनः किंलक्षणं नेत्रयुग्मं पक्ष्ममात्रमिलनात् पक्ष्म एव 'यममात्रं तस्य मिलनात् नियन्त्रितं स्पष्टम् ॥ १७ ॥ पात्रतैलदशिकादिभिर्बल-निःसहायमधिकायितस्य ते । अश्नुते न खलु कजलध्वज-चिन्मयस्व महसः शतांशताम् ॥१८॥
(व्या०) पात्र इति । हे नाथ कजलध्वजः कज्जलं वजो यस्य स दीपः खल निश्चित ते तव चिन्मयस्य चिदेव चिन्नयं तस्य ज्ञानरूपस्य महसस्तेजसः शतांशतां शतांशस्य भावः शतांशता तां न अश्नुते न प्राप्नोति । किंविशिष्टो दीप• पात्रतैलदशिकादिभिः पात्रं च तैलं च दशिका च पर्तिका पात्रतैलशिका. ता. आदयो येषां तानि तै पात्रतैलवर्तिकाप्रमुखरुपकरणेऽवलन्। ज्वलतीति ज्वलन् दीप्यमान. । किविशिष्टस्य महस: नि सहायं निर्गतः सहायो यस्मिन् कर्मणि यथा भवति तथा साहाय्यरहित अधिकायितस्य आधिक्यं प्राप्तस्य ॥ १८ ॥ सर्वतो विकिरतोऽपि कौमुदी, यस्य शाम्यति न कालिमा हृदः। स स्पृशत्यपि न ते तमस्विनी-वल्लभः स्वपरमासि चिन्महः ॥१९॥
(व्या०) सर्वत इति । सर्वतः सर्वपार्वतः कौमुदी ज्योत्स्ना विकिरतोऽपि विकिरतीति विकिरन् तस्य विस्तारयितोऽपि यस्य चन्द्रमस हदो हृदयकालिमा न शाम्यति । स तमस्विनी वल्लभः तमस्थिन्या रात्रेवल्लभ स्वामी चन्द्रः ते तव