________________
૩૪) શ્રીનકુમારસમેવા માધ્યમ થી સમર્હતમ ા સ ૨૦ ७-३-८० । इ. सू. अन्धपूर्वकतमस् शब्दात् अत् समासान्तः ।) संशय एक अन्धतमसं संशयान्धतमसं शमं शान्ति आम जगाम तत् अद्भुतमाश्चर्यम् १३ निर्गतं यदि तवाननाद्वचः, क्षीणमेव तदशेषसंशयः। कोशतोऽसिरुदितो भटस्य चे-भष्टमेव तदसत्त्वदस्युभिः ॥१४॥
(व्या०) निर्गतमिति । हे नाथ यदि तव आननात मुखात् वचो निर्गतम् तत् तदा अशेपसंगयै अशेपाश्च ते संशयाश्च तै. समस्तसंदेहैः क्षीणमेव । पेत् यदि कोशतः परिवारात भटस्य सुभस्य असि. खड्गः उदितो निर्गत: स्यात् तत् तदा असत्त्वदस्युभिः नास्ति सत्वं बलं येषां ते असत्त्वा निर्बलाः असत्वाश्वते दस्यवश्च चौ रैनष्टमेव ॥ १४ ॥ तावकेऽपि वचने श्रुति गते, यस्य मानसमुदीर्णसंशयम् । मुष्टिधामनि मणौ सुधाभुजां, तस्स हन्त न दरिद्रता गता ॥ १५॥
(व्या०) तावके इति । हे नाथ तावकेऽप तब इदं तस्मिन् वचने श्रुतिं कर्ण गते सति यस्य मानसं चित्तं उदीर्णसंशयं उदीर्ण संशयो यस्य तत् गतसंदेहं वर्तते तस्य पुंसो मुष्टिधामनि मुष्टिर्धाम स्थानं यस्य स तस्मिन् मुष्टिस्थिते सुधाभुजां सुधाममृतं भुञ्जते इति सुधाभुनो देवास्तेषां मणौ चिन्तामणौ। हन्त इति वितर्के दरिद्रता न गता ॥ १५ ॥ यत्वयोच्यन तथैव तन्महे, तन्महेश निजहृद्यसंशयम् । कम्पते किल कदापि मन्दरो, मन्दरोष न पुनर्वचस्तव ॥ १६ ॥
(व्या०) यदिति । हे महेश यद् वचस्त्वया औच्यत प्रोक्तम् । तत् तथैव असंशयं न विद्यते संशयो यस्मिन् तत् नि.सन्देहं वयं निजहृदि तन्महे विस्तारयामः 'अविशेषणे द्वौ चास्मद' इति सूत्रेण एकवचने बहुवचनम् । किल इति सत्ये हे मन्दरोष मन्दोरोषो यस्य स तस्य संबोधनं हे नन्दरोष । मन्दरो मेरु. कदापि कम्पते पुनस्तव वचो न कम्पने ॥ १६ ॥
शैलसागरवनीभिरस्खल-स्पक्ष्ममात्रभीलनानियन्त्रितम् । ज्ञानमेकमनलीकसंगतं, नेत्रयुग्ममतिशय्य वर्तते ।। १७ ॥