________________
श्रीजैन कुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (११ ईक्ष्वाकुभूरित्यभिधामधाद्भू र्यदा निवेशात् प्रथमं पुरोऽस्याः । नाभेस्तदा युग्मपतेः प्रपेदे, तनुजभूयं प्रभुरादिदेवः ॥ १७ ॥
( व्या० ) ईक्ष्वाकुरिति यदा यस्मिन्नवसरे अस्या' पुरो नगर्याः निवेशाद् रचनायाः प्रथमं पूर्वं भू भूमिरीयाकुरित्यभिधां नाम अधातू (पिबैति दाभूस्थ सिचो ३५ परस्मै न चेट् । ४ । ३ । ६६ । इ. सू. परस्मैपदे सिचोल्लुप् न च इट् ) धरतिस्म | तदा तस्मिन्नवसरे आदिदेवः श्री ऋषभप्रमुर्युग्मिपतेर्नाभ युगलस्वामिनो नाभिनृपस्य तनुजभूयं पुत्रभावं प्रपेदे प्रपन्न इत्यर्थ' तनुजभूयमित्यत्र ' हत्याभूयं भावे ' इति सूत्रेण भवतेर्नपुंसकभावे क्यबन्तो भूय इति निपातः ॥ १७ ॥
योगर्भगोऽपि व्यमुचन्न दिव्यं, ज्ञानत्रयं केवलसंविदिच्छुः । विशेषलाभं स्पृहयन्न मूलं, स्वं संकटेऽप्युज्झति धीरबुद्धिः ॥ १८ ॥ ( व्या० ) य इति । यो भगवान् गर्भगोऽपि गर्भस्थोऽपि दिव्यं देवलोकसंबंधि ज्ञानत्रयं ज्ञानानां मतिश्रुतावधीनां त्रयं न व्यमुचत् (ऌदित् घुतादिपुष्यादेः परस्मै । ३ । ४ । ६४ । इ. सू. ऌदित्वात् मुचेरद्यतन्यां अड् प्रत्यय') न मुक्तवान् । किं विशिष्टो भगवान् केवलसंविदिच्छूः (विन्दु इच्छू । ५ । २ । ३४ इ. सू. उप्रत्ययान्तो निपात') केवलज्ञानप्राप्तुकामः । अत्र दृष्टान्तमाह धीरबुद्धिः धीरावुद्धिर्यस्य सः पुमान् विशेषस्याधिकस्य लाभ प्राप्तिस्तं स्पृहयतीति स्पृहयन् इच्छन् संकटेऽपि आपद्यपि मूलं स्वं मूलधनं नोज्झति न त्यजति ॥ १८ ॥ यत्रोदरस्थे मरुदेव्यदीव्यत् पुण्येति साध्वीति न कस्य चित्ते । श्रीधानि सन्मौलिनिवासयोग्य, महामणौ रलखनिः क्षमेव ॥ १९ ॥
( व्या० ) यत्रेति यत्र यस्मिन् भगवति उदरस्थे ( स्थापास्त्रात्रः कः । ५ । १ । १४२ इ. सू. स्थाधातो. क प्रत्ययः) सति मरुदेवी पुण्या पवित्रा इति निष्पापत्वात् साध्वी (स्वरादुतो गुणादखणे । २ । ४ । ३५ । इ. सू. गुणक चाचिसाधुशब्दात् डीप्रत्ययः) सती इति शीलनिर्मलत्वात् कस्य चित्ते मनसि न