________________
१०) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टोकासमलंकृतम् ॥ सर्गः १
सू. कर्मणि आनश् अतो म आने । ४ । ४ । ११४ इ. सू. आनपरे अकारस्य अन्ते मः) सामस्त्येन नियमाणा किं विशिष्टाभिः इन्दनीलभित्तिप्रभाभि दत्तो. दकान्तिभिः दत्ता उदकस्य जलस्य भ्रान्तियभित्ताः ॥ १४ ॥ ययाचिषौ यत्र जने यथेच्छ, कल्पद्रुमाः कल्पितदानवीराः । निवारयन्तिस्म मरुद्विलोल,-प्रवालहस्तैः प्रणयस दैन्यम् ॥१५॥
(व्या०) ययाचिषाविति यत्र यस्यां पुर्यो कल्पद्रुमाः कल्पवृक्षा मरुद्विलोलप्रवालहस्तैः मरुता वायुना विलोलाः चंचलाः प्रवाला किशलयानि एव हस्ताः करास्तैः जने लोके 'तृणं लघु तृणात्तूलं तूलादपि हि याचकः' इति न्यायात् प्रणयस्य याश्चाया दैन्यं (वर्णददादिभ्यष्ट्यण च वा ७ । १ । ५९ । इ. सू. दीनात् भावे टयण) दीनस्य भावस्तत् निवारयन्ति स्म । किं विशिष्टे जने यथेच्छ (योग्यतापी सार्थानतिवृत्तिसादृश्ये । ३।१ । ४० । इ. सू. अर्थानतिवृत्तौ अव्ययीभाव समास) इच्छामनतिक्रम्य यथेच्छया ययाचिषा (सन् भिक्षासंशेर । ५ । २ । २३ इ. सू. शीलादिसदर्थे सन्नन्तादुप्रत्ययः) गृहभूषणादीनि ययाचियो याचितु मिच्छौ कि लक्षणा' कल्पद्रुमाः कल्पितदानवीराः कल्पितस्य वातस्य दाने वीरा समर्थाः ॥ १५ ॥ पूषेव पूर्वाचलमूनि चूक-कुलेन धोरं ध्वनतापि यत्र । नाखंडि पाखंडिजनेन पुण्य-भावः सतां चेतसि भासमानः ॥१६॥
(व्या०) पूपेवेति यत्र यस्यां नगर्या पार डिजनेन कुटिलजनेन सता सत्पुरुषाणां चेतसि मनसि भासमानो दीप्यमान पुण्यमावः नाखडि न खंडयामासे । किं लक्षणेन पाखंडिजनेन घो र रौद्रं ध्वनतापि प्रलपतापि क इव पूषा इय (इन् हन् पूधार्यम् शिस्यो. । १ । ४ । ८७ । इ. सू. सौपरे दीर्घः) सूर्य इव यथा पूपा सूर्यो बोरं ध्वनतापि घूककृलेन कौशिक कुलेन न खंड्यते सूर्यः किं लक्षण पूर्वाचलमूर्ध्नि (ईडौ वा । १।२ । १०९ । इ. सू. हिपरे अनोऽस्यला) पूर्वाचलस्य उज्याचलस्य मूर्ध्नि मस्तके भासमानः प्रकाशमानः ॥ १६ ॥ इति पुरीवर्णनम् ॥