________________
८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
प्रभुप्रतापप्रतिमनचौरे, पौरे जने ज्योतिषिक ने यत्र । चौराधिकारः पठितोऽपिसम्यक्, प्रतीयते सानुभवेन वन्ध्यः १०॥
(व्या०) प्रभुप्रतापेति । यत्र यस्यां नगयो ज्योतिषिगणकैश्चौराधिकार: सम्यक् पठितोऽपि न प्रतीयतेस्म (स्भे च वर्तमाना। ५ । २ । १६ । इ. सू. भूतानद्यतने वर्तमाना) न ज्ञायतेस्म । कि भूतश्चौराधिकार अनुभवेन विना वन्थ्यो निष्फल । कोऽपि चौर्य न करोतीति भावः । कस्मिन् सति पौरजने पुरे नगरे भव. संचासौ जनश्च तस्मिन् नागरिकलोके । प्रभुप्रतापप्रतिभन्नचौ रे सति प्रभोः श्रीषभदेवस्य प्रतापात् प्रभावात् प्रतिभशानिरस्ताश्चौरास्तस्क। येन स तस्मिन् ॥ १० ॥ पणायितुं यत्र निरीक्ष्य रत्न, राशिं प्रकाशीकृतमापणेषु । रत्नाकराणां मकराकरत्व-मेवावशिष्टं पुषुधे बुधेन ॥ ११ ॥
(०या०) पणायितुमिति । यत्र यस्यां पुया वुधेन विदुषा रत्नाकराणां समु. द्राणां मकराकरत्वं मकराणां मत्स्यादीनामाकरत्वमेव अवशिष्ट मुध्धृतं बुबुधे ज्ञात मित्यर्थः । किं वा आपणेषुहर५ पणायितुं गुपो-धूप-विच्छि-पणि पनेरायः । ३ । ४-१ इ सू. स्वार्थ पणेराय ) रत्नराशिं मौक्तिकपद्मरागादिनसमूह प्रकाशीकृतं न प्रकाशोऽप्रकाश: अप्रकाश: प्रकाश. कृतस्तं निरोक्ष्य वीक्ष्य । समुद्रस्य रत्नाकरमकराकरौ इति द्वे नानी प्रसिद्ध स्त: । रत्नाकरत्वं पुर्या गृहीतं मकराकरत्वं स्थितमिति भावः ॥ ११ ॥ यच्छीपथे संचरतो जनस, मिथो भुजेष्वंगदघट्टनोत्थैः । न्यतायत व्योमगतः स्फुलिंग, नक्षत्रचित्रं न दिवापि कस्य ॥१२॥
(०या०) यष्ठीपथ इति । यत्र यस्यां पुर्यां व्योमगतैः व्योमनभस्तद्गतास्तरकाशस्थितै स्फुलिग दिवापि दिवसेऽपि कस्य पुरुषस्य नक्षत्रचित्रं नक्षत्राणां चित्रमाश्चर्य नक्षत्रसन्काश्चर्य न व्यतायत विस्तारयामासे अर्थात् सर्वस्यापि । 'तनूयो' विस्तार तन् धातोत्तिनीत' 'अड्धातो' इत्यडागमे-'क्य' शिति'