________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (७
यदेमवातायनपतिवामा,-जने विनोदेन बहिः कृतास्थे । योमाधुजोदाहरणं प्रमाण,-विदा भिदामापदभावसिय ॥ ८॥
(न्या०) यश्मेति प्रमाणविदां तार्किकाणां व्योमाम्बुजोदाहरणं व्योम्न आकाशस्याम्बुज कमलं तस्योदाहरणमाकाशकमलप्टान्तः । अभावसिद्धय अभावस्य सिद्विस्तस्यै अभावसिद्धयर्थं प्रयुक्त सत् भिदामापत् (लदिद् धुतादि पुप्यादे परस्मै । ३।४-६४ इ. मू. आप्पातोरचतन्यां टदित्वाद भेदं प्राप। असहस्तु-प्रमाणेन स्थाप्यते सा अभावसिद्धि कथ्यते यथा महीतले घटो नास्ति आकाशे कमलमिव । कस्मिन् सति यद्वेश्भवातायनवार्तवामाजने यस्या नगर्या
मानि गृहाणि तेषां वातायनानि गवामा तेषु वर्तत इत्येवंशीलो चामा स्त्री इति जनः तस्मिन् विनोदेन यस्था नगर्या धवल हे गवाक्षवर्तिनि स्त्रीजने अत्र जातावकवचनं । विनोदेन बहिःकृतास्य सति कौतुकेन गवाक्षद्वारात् बहिःकृतमुखे इत्यर्थः । स्त्रीगां मुखान्येव आकाशे कमलानि सत्यानि । अतएवाकाशकमलानामसकल्पनावादिना व्यर्थमजनीति भावः ॥ ८ ॥ युक्तं जनानां हृदि यत्र चित्रं, वितेनिरे वेश्ममु चित्रशालाः । यत्तत्र मुक्ता अपि पन्धमापु, गुण र्वितानेषु तदताय ॥ ९ ॥ - (०या०) युक्तमिति यत्र यस्यां पुयो वेश्मसु आवासेषु चित्रशालाः जनानां लोकानां हदि (दन्तपादनासिकाहदय-वा २ । १ । १११ इ. सू. हृदयस्थ हृदादेश:) चित्रं युक्तं वितनिरे विस्तारयामासुः चित्रशब्देन चित्रकर्म आश्चर्य वा। चित्रशालाचित्रं कुन्ति एतधुक्तं । यस्य यस्तु स्यात् स तदन्येभ्योऽपि दत्ते युक्तमेवैतत् । तत्र तासु चित्रशालासु मुक्ता अपि गुण वितानेषु बंधमापुः प्राप्ताः तमूताय आश्चर्याय जातं किमिति चेत् ये मुक्ताः सिद्धाः स्युः ते गुण सत्त्वरजस्तमोलक्षणे बंध कथमाप्नुवन्ति । अथवा वितानेषु शून्यप्रदेशेषु मुक्त स्थापिता स्युः ते गुणविनयादिमिर्वन्धं कथमापुः प्राप्ताः । अथवा ये मुक्ताश्चौरादयः स्युस्ते गुणैर जुभिश्च कथं बन्धमापुः इत्थं विरोधः । अथ विरोधपरिहारमाह। मुक्ताशब्देन मौक्तिकानि वितानेषु चन्द्रोद्योतेषु गुणस्तंतुभिर्बन्धमापुरितितत्वम् अत्र विरोधालंकारो शेयः ॥ ९॥