________________
६) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १
(व्या०) हादिति यस्यां नमी पताकामि नित्यं निरंतरं नृत्यमकारि ।
(भाव कर्मणाः । ३।४ । ६८ इ. सू. सर्वधातोरचतन्यास्ते परे भावकर्मणोभिचप्रत्ययाश्च तस्य लक) उत्प्रेक्षते हर्षादिव । किं कृत्वा मन्दिराणामावासानां मौलिपुभंगेषु स्थितिं प्राप्य कि विशिष्टानां मन्दिराणां अध:स्थितनायकानां अधः स्थिता नायका. स्वामिनो येषु तेषामत एव हेतो: पताकानामुपरि स्थितत्वहनत्यमिति भावः ॥ किं लक्षणं नृत्य कणकिकिणिकानुयायि शब्दायमानक्षुद्रटिकां धर्धरिकामनुगच्छत् ॥ ५ ॥ तमिस्रपक्षेऽपि तमित्रराशे, रुद्धेऽवकाशे किरणैर्मणीनाम् । यस्थामभूवनिशि लक्ष्मणानां, श्रेयोर्थमेवावसथेषु दीपाः ॥ ६ ॥
(व्या०) तमिस्रति यस्यां पुर्या लक्ष्मणानां लक्ष्मीवतां आवसथे वाचासेषु (लदाया अनः । ७ । २ । ३२ इति सू. लक्ष्मी शब्दादनप्रत्ययोज्ञेयः) निशि रात्रौ दीपा प्रदीपा श्रेयोर्थमेव मंगलार्थमेवाभूवन् । निशि इत्यत्र 'मासनिशासनस्य शसादौ लुग वा' इति सूत्रेणाकारलोप। कस्मिन् सति तमित्रपक्षेऽपि अंधकारपक्षेऽपि तमित्रराशेरंधकारसमूहस्य अवकाश मणीनां किरण रुद्ध सति अत एव दीपानां श्रेयोऽर्थत्वमेव तमसो मणिकिरणैरेव रुद्धत्वादिति भावः ॥६॥ रतलोकसो रुग्निकरण राकी-कृतासु सखिपि शर्वरीषु । सिद्धिं न मन्त्रा इव दुःप्रयुक्ता, यत्राभिलाषा यथुरिस्परीणाम् ॥७॥
(०या०) रत्नोकसामिति । यत्र यस्यां नगर्यामित्वरीणा ( सृजीनाराष्ट्ररप् । ५। २ ७७ । इ. सू. इण् धातोष्टवरपप्रत्ययः च हस्पस्य तः पित्कृति । ४ । ४ । ११३ । इ. सू. त् च अजेयकनलअटिताम् ।२ । ४ । २० । इ. सू. टित्वात् डीप्रत्यये इत्वरी शब्दसिद्धि) मसतीनां अभिलाषा: मनोरथाः सिद्धिं न ययुः न गता । के इव दुःप्रयुक्तामन्त्रा इव मारणादिकर्मव्यापारिता मन्त्रा इव सिद्धिं नयान्ति । कासु सतीषु रत्नौकसां रत्नमयावासानां रुनिकरण कान्तिममूहेन सर्वास्वपि निखिलास्वपि शरीषु रजनीषु राकीकतासु राका पूर्णिमा तत्सदृशासु कृतासु सतीषु । कुलटाचौराणामभिलाषसाधकं तम' एवास्ति तच तत्र नास्तीतिमावः ॥ ७ ॥